________________
१०९
आह्निकम् ]
तर्कप्रकरणम् नाप्यास्ते एवमेवायं त्रिशङ्करिवालम्बमानः प्रत्ययान्तरनिवृत्तये प्रभवतीति तथा प्रत्ययानुभवादेव परिकल्प्यते । वाहकेलिप्रदेशदर्शने हि यथा पुरुषविशेषाः स्मरणपथमवतरन्ति न तथा स्थाणुविशेषाः । उभयविशेषस्मरणजन्मा च संशय इति सोऽयं वाहकेलिप्रदेशविशेषः शिथिलयति स्थाणुपक्षं न सर्वात्मनोच्छिनत्तीति । जन्मोच्छेददर्शनात् कृतकतत्कारणप्रत्यय इति न तद्हृदयं- 5 गमम् । तेन क्रमेण निर्णय एवासौ तत्कारणतथात्वं न तर्क इति । अथवा कार्योदाहरणत्वादस्य तत्रापि संशयनिर्णयान्तरालवर्ती तर्कप्रत्ययो द्रष्टव्यः स उदाहरणं भविष्यति ।
ऊह इति पर्यायाभिधाने किं प्रयोजनम् ? लक्षणप्रतिपादनमेव । तदेव हि तर्कस्य लक्षणं यदूहरूपत्वम् इतरस्तु सूत्रे कारणविशेषाय फलनिर्देशः, 10 कारणोपपत्तित इति कारणनिर्देशः । अविज्ञाततत्त्वेऽर्थे इति विषयनिर्देशः । तत्त्वज्ञानार्थ इति फलनिर्देशः ।
त्रिशङ्कुरिवेति । त्रिशङकुर्नाम राजा वसिष्ठशापाच्चण्डालतां प्राप्तो विश्वामित्रेण याजयित्वा स्वर्ग प्रापितः, चण्डालत्वेन देवैः प्रच्याव्यमानो विश्वामित्रहुङ्कारेण नाधःप्राप्तो भूमिम्, मध्य एव व्योम्नोऽवलम्बमात्रोऽद्यापि तिष्ठतीति । जन्मोच्छेददर्शनात् कृतक- 15 तत्कारणप्रत्यय इति । यदि हि जन्मकारणमकृतकं नित्यं स्यात् कारणानुच्छेदः स्यादिति कृतकधर्माधर्मकारणनिश्चय इति । तथा च भाष्यम् “तस्योदाहरणम्, किमिदं जन्म कृतकेन हेतुना निर्वय॑ते ? आहोस्विद् अकृतकेन ? अथाकस्मिकम् ? इत्येवमविज्ञाततत्त्वेऽर्थे कारणोपपत्त्या ऊहः प्रवर्तते। यदि कृतकेन हेतुना निवर्त्यते, हेतूच्छेदोपपन्नो जन्मोच्छेदः । अथाकृतकेन, हेतूच्छेदस्याशक्यत्वादनुपपन्नो जन्मोच्छेदः। अथाकस्मिकम्, 20 ततोऽकस्मान्निवर्तमानं पुनर्न निवत्स्यंतीत्यनुवृत्तिकारणं नोपपद्यते इति जन्मानुच्छेदः । एतस्मिंस्तर्कविषये कर्मनिमित्तं जन्मेति प्रमाणानि प्रवर्तमानानि तर्केणानुगृह्यन्ते, तत्त्वज्ञानविषयस्य च विभागात् तत्त्वज्ञानाय कल्प्यते तर्क इति"। अथवा कार्योदाहरणत्वायस्येति । यथा वृद्धसंज्ञायां शालामालेति रूपोदाहरणं शालीयो मालीय इति तु कार्योदाहरणं तथात्र तर्कः स्वरूपेण न दर्शितस्तर्ककार्यः पुननिर्णयो दर्शित इति । तथाहि, 25 धर्माधर्मरूपकृतकहेतुजन्यत्वे जन्मनो यावन्निर्णयफलमनुमानं सुप्रतिष्ठं नाभिहितं तावन्मध्ये तर्कदशात्र स्थितैवेति ।