________________
१०८
न्यायमञ्जा
[एकादशम् ननु नैव संशयनिर्णयान्तरालवर्ती तर्कप्रत्ययः कश्चिदस्ति, तथा हि यदि तावदनवगतविशेषस्य भवत्यसौ प्रत्ययस्तहि संशय एव भवेद् अवगंतविशेषस्य भवन्निर्णयतामेव स्पृशेत् । पुरुष एवेत्येवकारार्थाद्युन्मेषरहितोऽपि प्रत्ययो निर्णयो न न भवितुमर्हति, तुरगपरिसरणसमुचितदेशकर्शनमपि यदि स्थाणुपक्षे स्थगयितुमलमिति मन्यसे तत्करचरणादिनरविशेषदर्शनवत्तन्निर्णयकारणमेव स्यात् । अथ तस्यामपि तुरगविहरणभुवि निखनति कञ्चन स्थाणुमिति शङ्कसे, यद्येवं स्थाणुपक्षानपायात् पुनः संशय एव स्यादिति । न तृतीयः पक्षः समस्तीति लक्षणाभावात् कस्येदं लक्षणमिति ?
उच्यते, न खलु स्वमतिपरिकल्पितविकल्पवितानेन प्रत्यात्मवेदनीयाः 10 प्रतीतयो वरीतुं शक्याः, तथा हि स्थाणुर्वा पुरुषो वेति प्रतीतिरेका,
पुरुष एवायमित्यन्या, पुरुषेणानेन भवितव्यमिति मध्यवर्तिनी तृतीया सम्भावनाप्रतीतिः स्वहृदयसाक्षिकैव,
साम्येन हि समुल्लेखः संशये पक्षयोर्द्वयोः ।
निर्णये वितरः पक्षः स्पृश्यते न मनागपि ।। 15
तर्कस्त्वेकतरं पक्षं विभात्युत्थापयन्निव । - ननु सम्भावनाबीजवाजिवाहनदर्शनाद् वाहकेलिप्रदेशविशेषदर्शनं हि पुंसि सम्भावनामात्रमुपजनयितुमलं न तु शिरःपाण्यादिविशेषदर्शनवत् सर्वात्मना स्थाणुपक्षापसरणेन पुरुषनिर्णयाय प्रभवति, अतोऽयमगृहीतविशेषस्यैव भवति
प्रत्ययो न तु संशयः, एकतरपक्षानुकूलकारणोपपत्त्या जायमानत्वात् । कथं 20 पुनः पाणिपादादिपुरुषविशेषवदश्ववाहनदेशविशेषो विशेषकार्यं न कुर्यात्,
करेणैवास्थाणुपक्षोत्सारणान्निर्णय एवायमिति कस्यैष पर्यनुयोगः । यथा हि शिरःपाण्यादिदर्शने सति पुरुषनिर्णयो भवति न तथा तुरगवहनदर्शने सति । अननुयोज्याश्च पदार्था एवं भवत एवं मा भूतेति । यथा च देशान्तरे स्पर्धमान
एव स्थाणुपक्ष आस्ते, न तथा वाहकेलिभूमौ, अपि तु शिथिलीभवति सम्भवत्25 प्रमादत्वाच्च न सर्वात्मना निवर्तते ।
ननु यदि न निर्वतते तहि स्पर्धतां मा वा स्पर्धिष्ट स्थितस्तावत् स्थाणुपक्ष इति संशय एवायमिति, मैवम् । स्थाणुपक्षः सर्वात्मना न निवर्तते