________________
एकादशमाह्निकम्
तर्कप्रकरणम् तर्कपरीक्षणम्
अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्कः ॥
अविज्ञाततत्त्वेऽर्थे इति सामानाधिकरण्यनिर्देशादर्थ एवान्यपदार्थो न पुरुषः । पुरुषो हि षष्ठ्या निरदेक्ष्यत अविज्ञातं तत्त्वमस्येति। तत्त्वपदोपादानेन धर्मिणः सामान्यधर्ममात्रविशिष्टस्य विज्ञातत्वं सूचयति । कारणोपपत्तित इति 5 संशयज्ञानोल्लिख्यमानपक्षद्वयान्यतरपक्षोत्थापनानुकूलकारणावलोकनं तत्त्वस्योत्थापकमाह । अत एवाविज्ञाततत्त्वेऽर्थे भवन्तावपि बुभुत्साविमर्शी न तर्कतां प्राप्नुतः । तत्त्वज्ञानार्थमिति साक्षात् प्रमाणतामस्य निरस्यति । प्रमाणानुग्रहन्तु विशेषपरिशोधनद्वारेण विदधत् तत्त्वज्ञानाय कल्पते। तर्क ऊह इति पर्यायोपादानस्य प्रयोजनं वक्ष्यामः । तेनायं सूत्रार्थः, अविज्ञाततत्त्वे सामान्यतो 10 ज्ञाते धर्मिण्येकपक्षानुकूलकारणदर्शनात् तस्मिन् सम्भावनाप्रत्ययो भवितव्यतावभासस्तदितरपक्षशैथिल्यापादने तद्ग्राहकप्रमाणमनुगृह्य तान् सुखं प्रवर्तयंस्तत्त्वज्ञानार्थमूहस्तर्क इति । यथा बाह्यकेलिप्रदेशादावूर्ध्वत्वविशिष्टमिदर्शनात् पुरुषेणानेन भवितव्यमिति प्रत्ययः ।
ननु तत्त्वज्ञानार्थमित्युक्ते सति सामर्थ्यादविज्ञाततत्त्वता लभ्यत एवेति 15 किमर्थं स्वकण्ठेन पुनरनूद्यते ? बाढम् । किन्तु क्वचिद्विषये ज्ञाततत्त्वेऽपि पूर्वतर्केणावमृष्टे सत्युत्तरकालं तर्कितो मया अयमर्थ इति स्मर्यमाणतर्कविशेषणतया गृह्यमाणो विशेषणीभूतस्तकंस्तत्त्वज्ञानार्थो भवतीति तद्वयुदासाय पुनरविज्ञाततत्त्वग्रहणम् । मार्गशोधनद्वारेण तर्कस्य तत्त्वज्ञानार्थत्वमिह विवक्षितम्, तच्चाविज्ञाततत्त्वेऽर्थे सम्भवतीति ।
20
तर्कलक्षणे विज्ञाततत्त्वेऽपि पूर्वतर्केणावमृष्ट इति। यत्र तर्केण तत्त्वविज्ञानमभूत् ।