Book Title: Nyayamanjari Part 03
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
आह्निकम् ] तर्कप्रकरणम्
१३९ प्रयोक्तुमुत्सहते । तथा हि परमाणुषु सिद्धेषु सत्सु तत्र वर्तमानं मूर्तत्वमनित्यतां साधयेत, अन्यथा त्वाश्रयासिद्धतामुपेयात् । सिध्यन्त एव सावयवकार्यानुमानमार्गेण, लोष्टविभागावभासमानभागपरम्परापरिकल्पनक्रमेण वा परमाणवो निरवयवाः सिध्यन्ति । सावयवत्वे तदवयवाः परमाणवो भवेयुर्न ते, तेषामप्यवयवान्तरपरिकल्पनायामप्यवयवानन्त्यविशेषात् सर्षपस्य मेरोश्च 5 साम्यमापद्यते, न च तदस्ति । तदेवं निरवयवेषु परमाणुषु निसर्गसिद्धमनाश्रितत्वम्। अतश्चाश्रयविनाशावयवविभागादिविनाशकारणाभावात् स्वाभाविकविनाशवादनिराकरणाच्च कथं परमाणूनां नित्यतां स्पृशेत् ? मूर्तत्वन्तु वस्तु धर्मत्वाद् भवदपि प्रमेयत्वादिवन्न प्रयोजकम् । ___इयांस्तु विशेषः, प्रमेयत्वमुभयपक्षस्पर्शादनैकान्तिकं भवदप्रयोजकम् । 10 इदन्तु मूर्तत्वमनित्यव्यतिरिक्तवस्त्वन्तरपरिचयविरहितमपि न प्रयोजकमिति ।
नन्विदमपि प्रमेयत्ववद् विपक्षवृत्त्येव मूर्तत्वम् ? क्व विपक्षे वर्तते ? परमाणुष्वेव ? ननु तेषां पक्षीकृतत्वात् कथं विपक्षता, न पुरुषेच्छानुरोधेन वस्तु विपरिवर्तते ? विपक्षो हि नाम स उच्यते यः सिषाधयिषितधर्माध्यासिततया दृढप्रमाणासिद्धः । परमाणवश्चैतेऽनन्तरनिर्दिष्टनीतिक्रमेणानिर्णीतनित्यत्वाः 15 परमार्थतो विपक्षा एवानित्यत्ववादिनः, स तु रागद्वेषकलुषितहृदयतया यदि तान् पक्षतया ब्रवीति ब्रवीतु नाम, न तु सुस्पष्टासिद्धनित्यतानां परमाणूनां विपक्षभावो निवर्तते इति ।
तदिदमनुपपन्नम्, अनेन क्रमेण धूमानुमानस्याप्यनैकान्तिकत्वप्रसङ्गात् । धूमो हि महीभृति हुतवहविरहितवपुषि विपक्षे वर्तत एव । न तत्र चित्रभानो- 20 रभावो निश्चित इति चेत्, किन्नु खलु सद्भावोऽस्य तत्र गृहीतः ? तथा सति वा कृतमनुमानेन।
अथ सत्त्वमसत्त्वं वा नावधारितमेव धराधरे धूमकेतोः ? तर्हि सन्दिग्धा
सिध्यन्त एव च सावयवकार्यानुमानमार्गेणेति । तत्र यावत् कार्यजातस्य प्रत्यक्षेण ग्रहणम्, तत्र तदेव प्रमाणम्, तत ऊर्ध्वमनुमानम्; तदपि हि 'कार्य स्वावयवाश्रितम्, 25 सावयवत्वात् परिदृश्यमानकार्यवत्' इत्यादिना अष्टमाह्निकेऽनुमानं प्रतिपादितम् ।
Loading... Page Navigation 1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240