Book Title: Nyayamanjari Part 03
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 155
________________ १३२ न्यायमञ्जऱ्यां [ एकादश सर्वाण्येतानि सन्ति लक्षणानि, समस्तं वस्तु नोपन्यस्तमेव हेतुत्वेन नित्यानित्यधर्मानुपलब्धेरिति। ____ननु यद्यस्य पक्षधर्मान्वयव्यतिरेका निरपवादाः सन्ति कथं तहि न हेतुरेवायम्, इतरस्यापि पक्षधर्मान्वयव्यतिरेकाणां निरपवादानां सम्भवात् सोऽपि न कथं हेतुरस्त्विति चेत्, न, वस्तुनो द्वैरूप्यानुपपत्तेः । एवमिमौ हेतू पक्षद्वयेऽपि बुद्धि जनयन्तौ संशयमावहतो नानैकान्तिकवद्विपक्षवृत्तित्वेनेति हेत्वाभासान्तरत्वम्, एवंविधस्य चास्य प्रकरणसमस्य विरुद्धाव्यभिचारीति नाम यदि क्रियते तदपि भवतु न पुनरैकान्तिकप्रभेदतामवलम्बते तल्लक्षणासंस्पर्शादुभयप्रतीतिजनको हीमौ चेद् उभयतो नोभयपक्षवृत्तीति । नाप्ययं कालात्ययापदिष्ट: प्रत्यक्षागमयोरन्यतरस्यापि बाधकस्यानुपलम्भात् । अनुमानन्तु नानुमानस्य बाधकं भवितुं क्षममित्युक्तम् । न चेतरेतरवाद्यपेक्षया अनयोरसिद्धत्वमभिधेयम्, संशयजनकत्वेऽनुभवसिद्ध सति विशेषानुपलब्धेरप्रत्याख्येयत्वात् । ननु निश्चितस्य साधनप्रयोगाधिकारात् कथं चिन्तावान् साधनं प्रयुञ्जीत 15 निश्चितत्वञ्च तद्धर्मानुपलब्ध्योः परस्परमसिद्धत्वं स्थितमेव, नैतदेवम्, अन्यतरधर्मानुपलब्धेरेव पक्षधर्मान्वयव्यतिरेकान् पश्यन्नसौ निश्चिततां प्राप्तो न द्वितीयधर्मानुपलब्धेरसिद्धतां बुध्यमानः, अत एवायं भ्रान्तिमूलहेत्वाभासो 'द्वितीयधर्मानुपलब्धिसिद्धत्वनिश्चये तु सम्यग् हेतुरेव स्यात् । तदसिद्धत्वान वधारणेऽप्यसौ स्वस्य हेतोस्त्रैरूप्यदर्शनानिश्चितमतिर्भूत्वा साधनं प्रयुञ्जान 20 इतरेण तथैव निश्चितमतिना प्रतियोगे कृते तस्यापि त्रैरूप्यमुपलभमानः संशयमधिगच्छतीत्यलं प्रसङ्गेन। तदेवमसिद्धादिलक्षणवैपरीत्यात् प्रतीत्यनुगुणः प्रकरणसमो नाम सिद्धो हेत्वाभासः । अपरे पुनरुदाहरणान्तरमस्य व्याहरन्ति, नित्यः शब्दः पक्षसपक्षयोरन्य विशेषानुपलब्धेरप्रत्याख्येयत्वादिति । अयमाशयः, उभयधर्मानुपलब्ध्या तावदु52 भयोः संशयोऽस्ति, यस्य चोभयधर्मानुपलब्धिः संशयहेतुत्वेनाभिप्रेता स कथमन्यतरधर्मा नुपलब्धिः प्रत्याचक्षीत, यो ह्यभयधर्मानुपलब्धिमभ्युपगच्छत्यभ्युपगच्छत्येवासौ अन्यतरधर्मानुपलब्धिमपि, तथा विनोभयधर्मानुपलब्धेरभावादिति

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240