Book Title: Nyayamanjari Part 03
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 136
________________ आह्निकम् ] तर्कप्रकरणम् ११३ क्वचिच्च विकृतौ श्रूयते 'नखनिर्भिन्नश्चरुर्भवति' इति, तत्रोलूखलमुसलयोः प्रकृतौ पुरोडाशापेक्षिततुषकणविप्रमोकपूर्वकतण्डुलीभावसम्पादनद्वारेणोपयोगाद् विकृतावपि तत्कार्यापन्नानां नखानां प्रोक्षणाख्यः संस्कारः क्रियत इति । सोऽयं त्रिविध ऊहः । केचित्तु पञ्चविधमूहमाचक्षते 'धर्मस्यायंकृतत्वाद् द्रव्यगुणविकारव्यति- 5 धर्मस्यार्थकृतत्वाद् द्रव्यगुणविकारेति । तत्र द्रव्योदाहरणं प्रतिपादितम् । बार्हस्पत्यं चरुं नैवारं सप्तदशशरावं निर्वपेदिति नोवारव्यक्तिरूपद्रव्याश्रयणेन तत्प्रवृत्तेः । गुणोदाहरणं तु संस्थिते षडहे मध्वश्नातीति, षडहेनोपासीतेति द्वादशाहे चोदना स्वतन्त्रा वा । तत उक्तम्, संस्थिते षडहे मध्वश्नातोति । यदि दैवात् षडहः संतिष्ठते न क्रियतेऽशनम् । मध्वशनं कर्तव्यमिति षडहकार्ये मध्वशनं विधोयते । गुणत्वं तु मध्वशनस्य प्रदेशान्तरे 10 षडहाङ्गत्वेन विधानात् । यदा षडहेनोपासनं क्रियते तदा तदङ्गत्वेन मध्वशनमपि कचित् प्रतिपादितमिति तद् दृष्ट्वा गुणशब्देन मध्वशनस्य प्रतिपादनम् । विकारोदाहरणम्, नखनिभिन्नश्चरुर्भवतीत्यत्र नखा विकारशब्देनाभिधीयन्ते,तुषकणविप्रमोकलक्षणे वाधिकारे नखाः श्रुताः। व्यतिक्रमः पुनरप्रागागम्यसमर्थस्य यूपस्य परित्यागोऽन्यस्यासमर्थस्याश्रयणं यथा परिधौ पशुं नियुञ्जीतेति । न हि परिधिरल्पपरिमाणस्य पशोरप्यागम्ये समर्थः 15 इति । प्रतिषेधस्तु न गिरा गिरेति ब्रूयादैरं कृत्वोद्गायेदिति ज्योतिष्टोमे यज्ञ-याज्ञीयं साम प्रकृत्य स्तुतं न गिरा गिरेति कुर्यादिति । तत्र साम्नि यद् गिरेति पदमस्ति तन्नब्रूयात् । किं तहि कुर्यादित्याह, ऐरं कृत्वोद्गायेदिति इराशब्दस्य विकारमिरा इरेत्यादिकं कृत्वा गायेदित्यर्थः । तदेतेषु नीवारमधुभक्षणनखपरिधीरापदेषु द्रव्य-गुण-विकार-व्यतिक्रमप्रतिषेधरूपेषु बोहि-षडहोलूखलमुशल-यूप-गिरापदधर्माः कर्त्तव्याः । नेति तत्र पूर्वपक्षवादी, 20 ये व्रीहौ विदितास्ते कथमविहितत्वाद् नीवारेषु क्रियेरन्, ये च षडहधर्मास्ते कथं मध्वशने, ये चोलूखलमुशलयोः श्रुताः प्रोक्षणादयस्ते कथं नखेषु, यूपोपदिष्टाश्च कथं परिधौ, गिरापदे च ये श्रुता गोत्यादयस्ते कथम् इरापदे श्रुत्यभावादनुष्ठीयेरन्नित्याह ततः सिद्धान्तसूत्रमिदं धर्मस्यार्थकृतत्वादिति । एतेषु नीवारादिषु चोदनानुबन्धः । व्रीह्यादिसम्बन्धेन या धर्माणां चोदना तयानुबन्धः सम्बन्धः, तत्सम्बन्धेन नीवारादिसम्बन्धेन 25 ब्रोह्यादिगतत्वचोदितधर्मसम्बन्धः स्यात् । कुतः ? समवायात् । यतोऽसौ धर्मः प्रोक्षणादि व्रीहीन् प्रोक्षतीति व्रीह्यादिसम्बन्धेन श्रुतस्तत्र तत्र समवैतीति सम्भाव्यते कारणान्तरादतः कारणान्तरसम्भाव्यमानात् तत्समवायात् कर्तव्या एव ते धर्मा इत्यर्थः। किन्तु न्या० म० १५

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240