Book Title: Naywad Ane Yukti Prakash
Author(s): Padmasagar Gani, Hemchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
स्याद्वादरत्नाकरादिशास्त्रेषु युक्तिप्रकाशविस्तारस्तथाप्यनया गत्या तत्र नास्तीति सार्थकैव प्रवृत्तिरत्रेति, तथाविधशास्त्रस्था अतीव गहनगंभीरा युक्तयो लालित्येन सुकरतया चात्र विस्तार्यंत इत्यर्थः, इति प्रथमवृत्तार्थः ॥ १ ॥
॥ मूलम्॥चेद् बौद्ध ! वस्तु क्षणिकं मते ते, तत्साधकं मानमदस्तथैव ॥ तथा च तेन ह्यसता कथं तत्, प्रमेव धूमेन हुताशनस्य ॥२॥
॥ टीका ॥ - अथ प्रथमं बौद्धं निराकरोति, चेबौद्ध० तत् सं० हे बौद्ध ! तव मते चेद् यदि वस्तु घटपटलकुटशकटादिकं क्षणिक क्षणेन एके न समये न विनश्वरमस्तीत्यध्याहार्यान्वय:, तर्हि तत्साधकं वस्तुक्षणिकत्वसाधकं अदइदं मानमपि तथैव क्षणिकमेव स्यात्, अयं भाव: - यदि सकलमपि वस्तुक्षणिकमित्येवांगीकृतं त्वया, तदा क्षणिकत्वसाधकं प्रमाणमिदमेव वाच्यं । अर्थक्रियाकारित्वात् क्षणिकं वस्त्विति, इदमपि सकलवस्त्वंत:पातित्वेन क्षणिकमेवेत्यर्थः । ननु क्षणिकत्वसाधकं प्रमाणं चेत् क्षणिकं तदा क: प्रकृते दोष इत्यत आह - तथा चेति, तथा च एवं सति क्षणिकत्वादेकसमयानंतरं असता विनष्टेन तेन क्षणिकत्वसाधकप्रमाणेन कथं तत्प्रमा क्षणिकत्वप्रमा जन्यत इत्यर्थाद् बोध्यं, प्रमा त्वत्राऽनुमितिरूपैव गृह्यते, तथा चायमर्थः - क्षणिकत्वं तावत् साध्यं, अर्थक्रियाकारित्वादिति हेतु:, हेतुस्तु यदि सन् स्यात्तदा पक्षधर्मत्वसामानाधिकरण्येन साध्यानुमिति जनयति, एतस्य हेतो विनष्टत्वेन पक्षधर्मत्वाभावात्कथं साध्यानुमितिजनकत्वं, न कथमपीत्यर्थ: । अत्र द्रष्टांतमुखेन दाय दर्शयति । इव यथा धूमेन हेतुभूतेन हुताशनस्य वढेरनुमितिर्जन्यतेऽविनष्टत्वेन पक्षधर्मत्वसामानाधिकरण्यात्, न तथानेन हेतुना क्षणिकत्वात् स्वसाध्यानुमितिर्जनयितुं शक्येत्यर्थ इति वृत्तार्थः ॥ २॥ PIC २
nan

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56