Book Title: Naywad Ane Yukti Prakash
Author(s): Padmasagar Gani, Hemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 17
________________ घटविषयकप्रमाया अजननात्, न च तत्र योग्यताया अभावान्न संनिकर्षस्तत्प्रमां जनयतीति वाच्यं । योग्यतांगीकारे किमंतर्गडु ना संनिकर्षेण योग्यता हि प्रतिबंधकाऽभाव:, स च स्वावरणक्षयोपशमरूपं भावेंद्रियमेव, तथा चास्मत्कक्षापंजरप्रवेश:, विशेषणज्ञानाद्विशेष्यप्रमायां जायमानायां क्वचिदसत्यपि संनिकर्षे प्रमोत्पत्तेरिति स्थितमेतन्न संनिकर्षः प्रमाणमिति । अथ ग्रामो नास्ति कुत: सीमेति न्यायात् । घटाद्यर्थैः संनिकर्ष एव न संभवति, तस्य प्रमाणाऽप्रमाणत्वविचारस्तु दूरेऽस्त्विति दर्शयति - अप्राप्येति अप्राप्यकारि यदंबकं चक्षुस्तस्य घटादिनार्थेन संनिकर्ष: कथं भवेन्न कथमपीर्थः । यदि चक्षुः प्राप्यकारि स्यात् तदाऽस्यार्थप्राप्त्या संनिकर्षः संभवतीति भावार्थ इति वृत्तार्थः ॥ ६ ॥ ॥ मूलम्॥चेत्प्राप्यकार्यंबकमस्ति यौगा! ऽत्यासन्नमर्थं हि कथं न पश्यति॥ तथाविधं सत्किमु तेषु गत्वा, गृह्णाति वा यांत्यथ तेऽत्र देशे ॥७॥ ॥ टीका ॥ -अथ चक्षुःप्राप्यकारित्वं निरस्यति । चेत्प्राप्य० चेदंबकं चक्षुः प्राप्यकारि हे यौग ! अस्ति, तदाऽत्यासन्नमंजनादिकमर्थं कथं न गृहणातीत्यर्थः, यद्यत्प्राप्यकारि द्रष्टं तदत्यासन्नार्थग्राहकमपि । यथा शब्दादे: श्रोत्रादि, तथा च तर्कोल्लेख: - यदि चक्षुःप्राप्यकारि स्यात्तदात्यासन्नार्थग्राहकमपि स्यादिति तर्कोपजीवितप्रयोगोऽपि, यथा चक्षुर्न प्राप्यकारि अत्यासन्नार्थाऽग्राहकत्वात्, यन्नैवं तन्नैवं यथा स्पर्शनं, अथ तुष्यतु दुर्जन इति न्यायात्तावत्तवांगीकृतं चक्षुःप्राप्यकारित्वमप्यंगीक्रियते, यदि विकल्पसहं स्यात् । तथाहि - तथाविधं प्राप्यकारित्वं किमु कथं तेषु अर्थेषु गत्वा गृह्णाति, अथवा तेऽर्था अत्रदेशे चक्षुःप्रदेशे आयांतीति विकल्पद्धयमिति वृत्तार्थः ॥७॥

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56