Book Title: Naywad Ane Yukti Prakash
Author(s): Padmasagar Gani, Hemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 22
________________ ईश्वरज्ञानमज्ञानमेव स्यात्, तथा च प्रयोगः - इश्वरज्ञानमज्ञानं व्यापकत्वात्, यदेवं तदेवं, यथा गगनमितीश्वरस्य सर्वगत्वनिरास इति वृत्तार्थः ॥ १३ ॥ ॥ मूलम् ॥ - चिच्छक्तिसंक्रांतिवशेन बुद्धि - र्जडापि सांख्यस्य तवाऽजडैव ॥ आभासते यन्न च युक्तमेत च्चिच्छक्तिराप्नोति न संक्रमं यतः ॥ १४ ॥ - ॥ टीका ॥ -अथ सांख्यमतं निराकरोति, चिच्छक्ति ० अहो पुरुष सांख्य ! तव मते जडापि बुद्धिश्चिच्छक्तिसंक्रांतिवशेनाऽजवाभासते, अयमर्थ: - बुद्धिर्जडत्वेन न स्वपरप्रकाशिकाऽस्ति, यदा चैतस्यां चिच्छते: संक्रमः स्यात्तदा प्रकाशिकाऽपि स्यादित्यजडैव तवाभासते,न चैतद्युक्तं, कुत इत्याह यत: कारणात् चिच्छक्ति: संक्रमं नाप्नोति कथमिति चेच्छृणु, संक्रमस्तावन्मूर्त्तधर्मश्चिच्छक्तेरमूर्त्तधर्मत्वात् संक्रमो नोत्पद्यत इति वृत्तार्थ: ॥ १४ ॥ ॥ मूलम् ॥ तस्या अथ: संभवनेऽपि बुद्धि र्जडत्वतो न क्रियते सचेतना ॥ सचेतनस्यापि नरस्य संक्रमात्, यद्दर्पणो नैव भवेत् सचेतनः ।। १५ ।। अंकांकICI - ॥ टीका ॥ - तस्या० अथ तुष्यतु दुर्जन इति न्यायात्तव संतोषायैवमुच्यते, अथो अथानंतरं तस्याश्चिच्छक्तिसंक्रांते: संभवनेऽपि संभवेऽपि जडा सती बुद्धि:, सचेतना नैव क्रियते, कुत इत्याह - यत्कारणात् सचेतनस्यापि नरस्य दर्पणे संक्रमात् दर्पण: सचेतनो न स्यात्, दर्पणस्य सचेतनाऽचेतनसंक्रमावसरे तुल्यत्वादिति वृत्तार्थ: ॥ १५ ॥ ana ११ ग000000

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56