Book Title: Naywad Ane Yukti Prakash
Author(s): Padmasagar Gani, Hemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 20
________________ ॥मूलम्॥सकर्तृकत्वेऽवनिभूधरादिषु, साध्येऽत्र हेतुर्बत कार्यभावः ॥ न्यस्तस्त्वया तत्र कथं न द्रष्टः, शरीरिजन्यत्वमुपाधिरेषः ॥११॥ ॥ टीका ॥-सकर्तृ० चेदेक० चेतस० बतेत्यामंत्रणे हे यौग ! त्वयाऽवनि: पृथ्वी भूधरा: पर्वतास्तदादिषु अर्थेषु सकर्तृकत्वे साध्ये कार्यभाव: कार्यत्वं हेतुय॑स्तः, तथाहि प्रयोग: - भूभूधरादिकं सकर्तृकं कार्यत्वाद् घटवत्, यश्चात्र कर्ता स शंभुरेवेति। तत्र तस्मिन्ननुमाने शरीरिजन्यत्वं साध्यव्यापकसाधनाव्यापकत्वाद् व्यभिचारोन्नायकत्वाच्च कथं न त्वया एष उपाधिष्टः, अत्र एष इत्यनेन एवं ध्वन्यते । यदि व्यभिचारोन्नायकेतर: स्यादुपाधिस्तदाऽकिंचित्करत्वाददर्शनमपि स्यात्, अयमुपाधिस्तु व्यभिचारोन्नायकत्वेन व्याप्तिविघटकोऽपि कथं न दृष्टः, यदुक्तं तत्वचिंतामणौ - व्यभिचारोन्नयनं कुर्वनुपाधिर्याति दोषतामिति। तथा चायमर्थः - यत्कार्यं तच्छरीरिजन्यं कार्यत्वाद् धटवत्, ननु यथा घटादिकार्यस्य कर्ता कुलाल उपलभ्यते, तथा भूधरादिकार्याणां क: शरीरी कर्तास्तीति चेच्छृणु, स्वस्वकर्मसहकृता: पार्थिवादिजीवास्तत्कर्तारस्ते च संसारित्वेन शरीरिण एव, ननु पृथिव्यां जीवा संतीत्यत्र किं प्रमाणमिति चेदनुमानादेव तदास्थां कुरु, सकलापि पृथ्वी जीवच्छरीरं छेद्यत्वात्तरुवत्। मनुष्यशरीरवचेतीश्वरस्य जगत्कर्तृतानिरास: ॥११॥ ॥मूलम्॥चेदेक एवास्ति हरस्तदाऽसौ, न जीवभावं भजतेंऽतरिक्षवत् ॥ अथेश्वरश्चेत् स्ववशः कथं न, करोति लोकं सुखिनं समग्रं॥१२॥ ॥ टीका ॥ -अथ हर एक एवास्तीति यद्यौगा वदंति तन्निषेधायाह - चेद्यदि हर एक एवास्ति, तदासौ शंभुजीवभवं न भजते, न प्राप्नोति, अंतरिक्षवद् गगनवत्, यथाहि . . . . . . ...

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56