Book Title: Naywad Ane Yukti Prakash
Author(s): Padmasagar Gani, Hemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 19
________________ यत: कारणात्तेजस्तमो न गृह्णाति, प्रत्युत तमः क्षणोति विनाशयति, अत्रापि तर्कोल्लेख: - यदि चक्षुस्तैजसं स्यात्तदा तमोध्वंसकं स्यात्, व्यतिरेकदृष्टांतेन प्रयोगोऽपि तथैवेति स्थितमे तन्न तैजसं चक्षुरिति, पूर्वोक्त विकल्पाऽसहत्वेन चक्षुर्न प्राप्यकारीति वृत्तार्थः॥९॥ ॥ मूलम्॥- . बोधस्य बोधांतरवेद्यतायां, यौग! त्वया नो ददृशेऽनवस्था ॥ सौवग्रहव्यग्रतया पदार्था - ग्रहश्च शंभोरसमग्रवित्त्वं ॥१०॥ ॥ टीका ॥ -बोधस्य० हे यौग ! त्वया बोधस्य ज्ञानस्य बोधांतरवेद्यतायां ज्ञानांतरवेद्यतायां स्वीकृतायामित्यध्याहार्य, ज्ञानं ज्ञानांतरवेद्यमित्यंगीकृते त्वयाऽनवस्था न ददृशे, घटादिज्ञानं ज्ञानांतरग्राह्यं चेत्तदा ज्ञानांतरेण ग्राह्यं तदंतरेणेति, च पुनर्दूषणाभ्युच्चये, ज्ञानस्य ज्ञानांतरवेद्यतायां घटादिविषयकज्ञानस्य सौवग्रहव्यग्रतया, स्वसंबंधा ग्रह: सौवग्रहस्तस्मिन् व्यग्रतया पदार्थानां ज्ञेयानामग्रहस्तथा च लाभमिच्छतो मूलक्षतिरायाता, तथाहि - पदार्थग्रहाय ज्ञानं त्वया कल्पितं तच्चेत् स्वग्रहेऽप्यसमर्थं, तदा पग्राहकं कथं स्यात् । स्वग्रहे व्यग्रत्वं च शब्दबुद्धिकर्मणां त्रिक्षणावस्थायित्वेन प्रथमक्षणे स्वयमुत्पद्यते द्वितीयक्षणे ज्ञानांतरमुत्पन्नं सत् तद् गृह्णाति, तृतीयक्षणे तु गृहीतं सत्तद्विनश्यति, तथा च कुतस्तेन पदार्थग्रहः, पुनर्दूषणांतरमाह - शंभोरीश्वरस्याऽसमग्र वित्त्वमसर्ववेदित्वं स्यात्तथाहि - इश्वरज्ञानस्यापि ज्ञानत्वेन ज्ञानांतरग्राह्यत्वमेव वाच्यं त्वया। तथा च तद् ज्ञानं परोक्षं स्यात्, तथा च तेन स्वयं स्वज्ञानमपि न गृहीतं, तदा तेन कथं घटादयोऽर्था गृह्यते, अथेश्वरज्ञानं तथा नास्तीति चेत्तदाऽस्मदादीनामपि ज्ञानत्वे विशेषाऽभावात्तथा नास्तीत्यर्थस्तथा च प्रयोग: - ज्ञानं न ज्ञानांतरवेद्यं ज्ञानत्वादीश्वरज्ञानवदिति वृत्तार्थः ॥

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56