Book Title: Naywad Ane Yukti Prakash
Author(s): Padmasagar Gani, Hemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 26
________________ HONE... ॥टीका ॥-ननु तमसोमावरूपत्वेन कथं परमाणुजन्यत्वमित्यत आह द्रव्यंत० हे वैशेषिक ! तमो द्रव्यं कुत इत्याह - स्वतंत्रतया प्रतीते:, यत् स्वातंत्र्येण परनिरपेक्षतया प्रतीयते तद् द्रव्यं, घट इवेति। अथेति द्वितीयहेत्वर्थे रूपवत्त्वात्तद्रव्यं घटवदिति। अथाऽभावरूपत्वे दोषमाह तमो नाऽभावरूपं, कुत इत्याह - प्रतियोगीति, तमसोऽभावरूपत्वे प्रतियोगी तावदालोको वक्ष्यते भवता, अस्माभिस्तु वक्ष्यते तमएव प्रतियोगी, तस्याऽभावस्तु आलोक इति, तथा च भवता प्रोच्यमानप्रतियोगिनोऽपि तथा स्वरूपं केन वार्च ? न केनापीत्यर्थः स तमसो व्यत्वात्परमाणुजन्यत्वमिति वृत्तार्थः॥२१॥ ॥ मूलम्॥काणाद! शब्दस्तव चेन्नभागुणा नातीनि स्यात्परिमाणवत्कथं॥ गुणोऽपि चेत्तर्हि तदाश्रये च, द्रव्येऽगृहीते किमु गृह्यतेऽसौ॥२२॥ ॥ टीका ॥ -अथ शब्दस्य गुणत्वं निषेधयति। काणाद० हे काणाद तव मते चेन्नभोगुण: शब्दोऽस्ति, तदाऽतींद्रिय इंद्रियाऽग्राह्यः कथं न स्यात् परिमाणवत्। अधिकाराद् गगनपरिमाणमिव, यथा गगनपरिमाणं तद्गुणत्वेनाऽतींद्रियं तथा शब्दो भवेदिति, तस्मान्न गगनगुण: शब्द: ननु शब्दस्य गगनगुणत्वं मास्तु तथाऽपि कस्यचिद् द्रव्यांतरस्य गुणोऽयं भविष्यतीति वैशेषिककदाशां निराकरोति, चेत् शब्दो गुणस्तर्हि तदाश्रये द्रव्येऽगृहीतेऽसौ कथं गृह्यते, तस्मानायं गुणोऽपीति वृत्तार्थः॥२२॥ ॥ मूलम्॥द्रव्यं हि शब्दो गतियुक्तभावाद्, व्याघातकत्वाच्च गुणान्वितत्वात्॥ अर्थक्रियाकारितया च किं चा-नुद्भूतरूपादिगुणान्वितोऽसौ॥२३॥ ॥टीका ॥ -अथ शब्दस्य गुणत्वं निरस्य स्वमतसिद्धं द्रव्यत्वं दर्शयति, द्रव्यं । गटाnnoun १५राnिomonomen

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56