Book Title: Naywad Ane Yukti Prakash
Author(s): Padmasagar Gani, Hemchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
नैगमो मन्यते वस्तु तदेतदुभयात्मकम् ॥
निर्विशेषं न सामान्यं विशेषोऽपि न तद्विना ॥५॥ सङ्गहो मन्यते वस्तु सामान्यात्मकमेव हि ॥
_सामान्यव्यतिरिक्तोऽस्ति न विशेषः खपुष्पवत् ॥६॥ विना वनस्पति कोऽपि निम्बाम्रादिर्न दृश्यते ॥ . हस्ताद्यन्त विन्यो हि नाङ्गुल्याद्यास्ततः पृथक्॥७॥ विशेषात्मकमेवार्थं व्यवहारश्च मन्यते ॥
विशेषभिन्न सामान्यमसत् खरविषाणवत्. ॥८॥ वनस्पतिं गृहाणेति प्रोक्ते गृह्णाति कोऽपि किम् ॥
विना विशेषान्नाम्रादी स्तन्निरर्थकमेव तत् ॥९॥ व्रणपिण्डीपादलेपादिके लोकप्रयोजने ॥
उपयोगो विशेषैः स्यात् सामान्ये नहि कर्हिचित्॥१०॥ . ऋजुसूत्रनयो वस्तु नातीतं नाप्यनागतम् ॥
मन्यते केवलं किन्तु वर्तमानं तथा निजम् ॥११॥ अतीतेनानागतेन परकीयेन वस्तुना ॥
न कार्यसिद्धिरित्येतदसद्गनपद्मवत् ॥१२॥ नामादिषु चतुर्वेषु भावमेव च मन्यते ॥
न नामस्थापनाद्रव्या - ण्येवमग्रेतना अपि ॥१३॥ अर्थे शब्दनयोऽनेकैः पर्यायैरेकमेव च ॥. .
मन्यते कुम्भकलशघटाघेकार्थवाचकाः ॥१४॥ .. ब्रूते समभिरूढोऽर्थे भिन्ने पर्यायभेदतः ॥
भिन्नार्थाः कुम्भकलशघटाघटपटादिवत् ॥१५॥ d
ow४३nnnnnnnon

Page Navigation
1 ... 52 53 54 55 56