Book Title: Naywad Ane Yukti Prakash
Author(s): Padmasagar Gani, Hemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 24
________________ विहितं कृत्यं स्वयमेव भोक्तव्यं, नाऽपरेण, हि यत: कारणालोकेऽपि तद्भोग: स्वयंकृतभोग: स्वस्यैव तस्करादिषु दृश्यते, येनैव हि तस्करेण चौर्यं कृतं, तस्यैव तस्करस्य शूलारोपणादि क्रियमाणमस्ति, नापरस्येति, मंत्रिद्रष्टांतस्त्वत्राऽसत्य एवेति, न हि सर्वमपि मंत्रिणा कृतं राजा भुनक्ति, यच्च किंचिद् भुनक्ति तत्तु तेन मंत्रिणा करणभूतेन निर्मितत्वात्, तथा चास्मन्मतमेव सुस्थं, करणभूतैः कर्मभिः कृतं जीवो भुनक्तीति वृत्तार्थः॥ १८॥ ॥ मूलम्॥एकांतनित्यं गगनादिवस्तु, स्वभावभेदात्किमु कार्यकारि॥ स्वभावभेदस्तु न तत्र चेद्भवेद्-भवेत्तदा तजनितार्थसंकरः॥१९॥ ॥ टीका ॥ -अथ सांख्यमतं निरस्य वैशेषिकमतं निराकरोति। एकांत. अहो वैशेषिक ! गगनादि गगनकालदिगात्मादिकं वस्तु एकांतनित्यं सत् स्वभावभेदाद् भिन्नस्वभावकत्वात्कार्यकारि किमु कथं भवति न कथमपीति, भावार्थस्त्वयं - यदि गगनादि वस्तु नित्यं तदा कथं स्वभावभेदः, संभवति अप्रच्युताऽनुत्पन्नस्थिरैकस्वभावं हि नित्यं, गगनादिकं हि येनैव स्वभावेन तव मते प्रथमं शब्दादिकं जनयति, न तेनैव स्वभावेन द्वितीयं शब्दादिकं जनयति, एवमात्मादिना सुखदुःखादिजननेऽप्यवसेयं, न हि येनैव स्वभावेनात्मा सुखं जनयति तेनैव स्वभावेन दुःखमपीति, तथा च स्वभावभेदात् स्वभाववतोऽपि भेद इति, ननु स्वभावभेदो मास्तु, एक स्वभावेनैव गगनादिवस्तु कार्यकारि भविष्यतीत्याशंक्याह - चेद्यदि तत्र गगनादिवस्तुनि कार्यजननाऽवसरे स्वभावभेदो न भवेत्तदा तदिति गगनादिना क्रमेण जनितार्थानां संकरः स्यात्, कथमिति चेच्छृणु, येनैव स्वभावेन प्रथमं शब्दं जनयति गगनं, तेनैव स्वभावेन IRIDIHDE 13 monamoonar

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56