Book Title: Naywad Ane Yukti Prakash
Author(s): Padmasagar Gani, Hemchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
॥ मूलम्॥यदि स्तः प्रकृतेरेव, बंधमोक्षौ तदा ध्रुवम्॥ वंध्याजस्येव जीवस्या - ऽवस्तुत्वं न भवेत्कथं ॥१६॥
॥ टीका ॥ -यदि स्त० भो सांख्य ! यदि प्रकृतेरेव बंधमोक्षौ स्त:, तदा ध्रुवं निश्चितं वंध्याजस्येव वंध्यासुतस्येव जीवस्यात्मनोऽवस्तुत्वं कथं न भवेदपि तु भवेदित्यर्थः, कथमिति चेच्छृणु, यथाहि वंध्यासुतस्यार्थक्रियाकारित्वाऽभावात् अवस्तुत्वं, तथा जीवस्याऽर्थक्रियाकारित्वाऽभावादवस्तुत्वं, तथाहि - जीवस्यार्थक्रिया बंधो मोक्षश्च, तौ च तस्य तव मते न स्त इति वंध्यासुतसदृश आत्मा स्यादितिवृत्तार्थः ॥ १६॥
॥मूलम्॥नस्तश्चेदात्मनो बंध - मोक्षौ तर्हि कथं त्वया॥ भोगीति मन्यते बद्धं, प्रकृत्या भोगमस्ति यत्॥१७॥
॥ टीका ॥-नस्तश्चे० चे बंधमोक्षौ आत्मनो न स्तस्तर्हि आत्मा भोगीति त्वया कथं मन्यते, भोगो हि शुभाऽशुभकर्मबंधजनित:, स चास्य नास्तीति न भोगित्वव्यपदेशो युक्तः, तथा च प्रकृतेरेव त्वया भोगित्वं वाच्यं, कुत इत्याह - यत्कारणात् भोग्यं कर्म प्रकृत्येव बद्धं, नान्येनेति वृत्तार्थः॥ १७॥
॥ मूलम्॥स्वयं च विहितं कृत्यं, स्वयं भोक्तव्यमेव भोः॥ दृश्यते पत्र लोकेऽपि, तद्भोगस्तस्करादिषु ॥१८॥
॥ टीका ॥ -अथ मंत्रिणेवान्येन कृतं राज्ञेवान्येन भुज्यमानमपि दृश्यत इति मंत्रिस्थानीयप्रकृता बद्धं आत्मना भुज्यमानमस्तीत्यत आह स्वयंच०, भो सांख्य ! स्वयं

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56