Book Title: Naywad Ane Yukti Prakash
Author(s): Padmasagar Gani, Hemchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
॥ मूलम्॥प्रामाण्यमुच्चैर्वदताऽपरोक्षा - नुमानयोरेव निषिद्धमेतत् ॥ शब्देषु बौद्ध ! त्वयका तथा चा - ऽप्रामाण्यमाप्तं तकयोर्न द्रष्टं ॥४॥
॥ टीका - ॥ प्रामाण्यमिति ॥ - हे बौद्ध ! अपरोक्षानुमानयोरेव प्रत्यक्षानुमानयोरेव प्रामाएयं वदता प्रमाणे स्त इत्युक्तं । तथा च शब्देषु त्वया एतदिति प्रामाण्यं निषिद्धं । तत: किमित्यत आह - तथा चेति, एवं सति तकयोस्तयोस्तव प्रामाण्येनाऽभितयोः प्रत्यक्षानुमानयोरप्रामाण्यमाप्तं प्राप्तं सदपि भवता न द्रष्टं, न ददृशे, इति शब्दार्थः, भावार्थस्तु त्वया हि धावत भो डिंभा: नदीतीरे गुडशकटं विपर्यस्तमित्यादिवचनवत् संवादकत्वाऽभावात् सर्वेषां शब्दानामप्रामाण्यमित्येवं वक्तव्यं, तच्च प्रत्यक्षानुमानयोरपि समानं, क्वचिद् भ्रमरूपे प्रत्यक्षादौ संवादकत्वाऽदर्शनात्, क्वचिद्धे त्वाभासादावनुमानेऽपि संवादकत्वाऽदर्शनात्तयोः समग्र योरपि अप्रामाण्यप्रसक्तेस्तस्मात्तयोरिव शब्दानामपि प्रामाण्यांगीकारं कुर्वित्यर्थः, इति वृत्तार्थः ॥४॥
॥ मूलम्॥नांतर्भवत्येव किलानुमाने, शाब्दं प्रमाणं विपरीतरूपं ॥ प्रत्यक्षवत्तस्य यतो विभिन्ना, समग्रसामग्रपि सुप्रतीता ॥५॥
॥ टीका ॥ - ननु शाब्दं प्रमाणं पृथग् नोच्यते, किंत्वनुमानांत:पातीत्युच्यत इति चेन्नैतदपि सुंदरमित्यत आह - नांतर्भ०, शाब्दं प्रमाणमनुमाने न अंतर्भवति, यथा प्रत्यक्षमनुमाने नांतर्भवति तथेदमपि, कुतोऽस्याऽनुमानाऽनंतर्भाव प्रत्यक्षसाम्यमित्यतो विशेषणद्वारा हेतुमाह - किंविधं शाब्दं प्रमाणं, विपरीतरूपं अनुमानाद्विपरीतं रूपं स्वरूपं यस्य तदिति प्रत्यक्षसाम्यं । कुतोऽस्य प्रत्यक्षस्येव नानुमानरूपत्वमित्यत आह - यत:
गावर ४ सपा

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56