Book Title: Naywad Ane Yukti Prakash
Author(s): Padmasagar Gani, Hemchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
कारणात्तस्य शाब्दप्रमाणस्य समग्र सामन्यपि अनुमानाद्विभिन्नास्तीति शब्दार्थो, भावार्थस्त्वयं - त्वया हि शाब्दं प्रमाणं किं संबद्धमर्थं गमयेदसंबद्धं वा, न तावदसंबद्धं, गवादेरप्यश्वादिप्रतीतिप्रसंगात् । संबद्धं चेत्तदा तल्लिंगमेव तज्जनितं च ज्ञानमनुमानमेवेति वक्तव्यं, तच्चाऽयुक्तं, प्रत्यक्षस्याप्येवमनुमानत्वप्रसंगात् । तदपि हि स्वविषये संबद्धं सत्तस्य गमकं, अन्यथा सर्वस्य प्रमातुः सर्वार्थप्रत्यक्षत्वप्रसंगात् । अथ विषयसंबद्धत्वाविशेषेऽपि प्रत्यक्षानुमानयोः सामग्रीभेदात्प्रमाणांतरत्वं, तर्हि शब्दस्यापि किमेवं प्रमाणांतरत्वं न स्यात्, शाब्दं हि शब्दसामग्रीतः प्रभवतीति तदुक्रं प्रमेयकमलमार्तंडे - शब्दादुदेति यद्ज्ञान- -मप्रत्यक्षेऽपि वस्तुनि । शाब्दं तदिति मन्यते प्रमाणांतरवादिनः ॥ १ ॥ तस्मात्प्रत्यक्षानुमानयोरिव शब्दस्यापि प्रमाणांतरत्वमंगीकर्त्तव्यमेव । अथ शब्दसामम्ग्रा बहुसंमतत्वं दर्शयति । किंविधा सामग्री सुप्रतीता अतिशयेन प्रतीतेत्यर्थः ॥ ५ ॥ ॥मूलम्॥
न संनिकर्षोऽपि भवेत्प्रमाणं, प्रमाकृतौ तद्व्यभिचारदर्शनात् ॥ अप्राप्यकार्यंबकसंनिकर्षो, घटादिनाऽर्थेन कथं भवेत् पुनः ॥ ६ ॥
॥ टीका ॥ - अथ सुगतमतमपाकृत्य नैयायिकमतमपाकरोति, न संनि० चेत्प्राप्य० द्विधाप्य० न तैज० अग्रगकाव्यगतं यौगपदमध्याहृत्यात्र व्याख्येयं ॥ हे यौग ! त्वया प्रमाणत्वेन कल्पितोऽपि संनिकर्षः प्रमाणं न भवेत्, कुत इति हेतुमाह ॥ प्रमाकृतौ प्रमाजनने तदिति तस्य संनिकर्षस्य व्यभिचारदर्शनात्, भावार्थस्त्वयं प्रमासाधकतमं प्रमाणमिति प्रमाणलक्षणं त्वया अभ्युपगतं, यद्यस्मिन् सति भवत्येवाऽसति च न तत्तस्य साधकतमं, क्वचित्सत्यपि संनिकर्षे प्रमाया अनुत्पादात् । क्वचिदित्यपि प्रमोत्पत्तेरित्यत्रान्वयव्यतिरेकाभ्यां व्यभिचारदर्शनात् । तथाहि - गगनस्य विभुत्वेन सकलमूर्त्तद्रव्यसंयोगित्वं विभुत्वमिति वचनाद् गगनचक्षुषोर्घटचक्षुषोरिव संनिकर्षेण.
DOK Y ICICI
ICICIcicio

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56