Book Title: Naywad Ane Yukti Prakash
Author(s): Padmasagar Gani, Hemchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
॥श्री जिनाय नमः ॥ अथ श्रीयुक्तिप्रकाशविवरणं प्रारभ्यते. ॥
(कर्ता - श्री पद्मसागरगणी) ॥ मूलम् ॥प्रणत्य व्यक्तभक्त्या श्री-वर्द्धमानक्रमांबुजं ॥ आत्मार्थं तन्यते युक्ति - प्रकाशो जैनमंडनं ॥१॥
॥ टीका ॥ - प्रणम्य श्री महावीरं, नम्राखंडलमंडलं ॥ कुर्वे युक्तिप्रकाशस्य, स्वोपज्ञां वृत्तिमादरात् ॥ १ ॥ प्रणत्येति - ॥ श्रीवर्द्धमान: श्री महावीरनामाऽस्यामवसर्पिण्यामंतिमजिनस्तस्य क्रमांबुजं पादपद्मं प्रणत्य नत्वा युक्तिप्रकाशनामा ग्रंथो मया तन्यत इति तावदन्वयः, तत्र व्यत्क्येभक्रयेति करणपदं वीरप्रणामविशेषणं तथा च व्यक्तभक्त्यन्वितप्रणामस्य बलवन्मंगलभूतत्वेन प्रत्यूहव्यूहोपशमनार्थमादावुपन्यासः, ननु बहूनां युक्तिप्रकाशकशास्त्राणां विद्यमानत्वेन किं युक्तिप्रकाशविस्तरकरणादरेणेत्यत आह - आत्मार्थं स्वार्थ, पूर्वाभ्यस्तान्येव शास्त्राण्येतत्करणादरेण विशेषात् स्मारितानि संति, स्वसंस्कारोबोधलक्षणं स्वार्थ साधयेयुरित्यर्थः, नन्वेतच्छास्त्रेऽध्ययनांऽगीकाराभ्यां केऽधिकारिण इत्याह - किंभूतो युक्तिप्रकाश:, जैनमंडनं, जिनशासनानुयायियुक्तीनामेवात्र प्रतिपादितत्वेन जैनाना मेवाऽध्ययनांगीकाराभ्यामधिकारित्वान्मंडनमिव मंडनं, यद्यप्येतदध्ययनमात्रे शाक्यादयोऽधिकारिणो भवत्येव, तथाप्यत्र तदुच्छेदकयुक्तीनां विद्यमानत्वेनाऽनधिकारिण एव शाक्यादय इत्यर्थादापन्नं, ननु श्रीमद्भिर्यो युक्तिप्रकाशविस्तरः क्रियते, स किं पूर्व विद्यते न वेति चेत्पूर्वं विद्यते, तदा सत: पुन:करणेन पिष्टपेषणं संपन्नं, चेन्नविद्यते तदाऽसत: करणायोग इत्युभयथाप्यत्र निरर्थकैव श्रीमतां प्रवृत्तिरितिचेन्न, अस्त्येव सम्ममा
१ स
य

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56