Book Title: Navtattva Sahitya Sangraha
Author(s): Udayvijay
Publisher: Mansukhbhai Manekbhai

View full book text
Previous | Next

Page 118
________________ ॥ अव० वृत्यादिसमेतं नवतत्त्वप्रकरणम् ॥ (५६) अयं भावः, अचुभानां प्रकृतीनां गिरिमहीरजोजलराजिसदृशैः कपायैःक्रमशश्चतुतिद्वयेकस्थानिका रसा भवन्ति । शुभानां पुना रजो-. जलराजिसदृशैश्चतुःस्थानिकः, गिरिमहीराजिसमैस्तु क्रमाद्वित्रिस्थानिकः, एकस्थानिकस्तु शुभासु नास्त्येव । अथ याश्चतुर्विधस्थानरसा याश्चान्यथा ता आह-विघ्नाः पश्चान्तरायाः, देशावरणानि मत्यावरणादीनि चत्वारि ज्ञानावरणानि, चक्षुर्शनावरणादोनि त्रीणि दर्शनावरणानि चेति सप्त, पुंवेदः, सज्वलनाश्चत्वारः कषायाः, एताः सप्तदश एकद्वित्रिचतुःस्थानरसाः, शेषा द्विस्थानकादयः, अ-. शुभास्वपि सप्तदशवर्जितास्वेकस्थानिको रसो न लभ्यते तथाशिधाध्यवसायबद्धयमानत्वात् ॥ अथ शुभाशुभरसस्वरूपमुपमानैश्चतुःस्थानकादिकञ्च व्युत्पादयितुकाम आह ॥] [निवुइच्छुरसो सहजो, दुति चऊभागकढि इक्कभागतो. इगठाणाई असुहो, असुहाण सुहो सुहाणं तु॥७२॥]८९ [(अ0) निम्बेक्षुरसः कटुमधुरश्च, सहजोऽक्कथितः, द्वित्रिचतुर्भागकथितेकभागान्तः, एकस्थानकादिः, अशुभः अशुभानां, शुभस्तु पुनः शुभानां पुण्यप्रकृतीनामित्यक्षरार्थः । अयंभावः, अकथितः सहजो निम्बरसो यथा कटुस्त देकस्थानिकोऽशुभरसः, अईकथितो यथा कटुतरस्तथा विस्थानिकः, तृतीयो भागो यथा कटुतम-- स्तथात्रिस्थानिकः, अतिकटुतमचतुर्थभागवच्च चतुःस्थानिकः। एवमिक्षुरसस्यापि भावना, नवरं स शुभरसस्यौपम्यम् । विशेषता रसस्वरूपजिज्ञासुना. पञ्चसङ्ग्रहपञ्चमकर्मग्रन्थविवरणादयो . विलोक्याः ॥] (इति रसबन्धः) [अंतिमचउफासदुगंध-पंचवन्नरसकम्मखंधलं । सबजिअणंतगुणरस-मणुजुत्तमणंतयपएसं ॥७३॥] ९० [( अ ) अन्तिमचतुःस्पर्श शीतोष्णस्निग्धरूक्षस्पर्शयुतं, वृहच्छतकटीकायां तु मृदुलघुस्पर्शद्वयं सूक्ष्मद्रव्येऽवस्थितमेव, अन्यौ द्वौ शीतस्निग्धौ शीतरुक्षी उष्णस्निग्धावुष्णरुक्षौ वाऽविरुद्धाविति चतुःस्पर्श । एतेनौदारिकादिदलिकमष्टस्पर्शयुतमेव गृह्यते। द्विगन्धं, पञ्चवर्ण, पञ्चरसञ्च कर्मस्कन्धदलं, किंविधं तदित्याह-सर्व

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250