________________
॥ अव० वृत्यादिसमेतं नवतत्त्वप्रकरणम् ॥ (५६) अयं भावः, अचुभानां प्रकृतीनां गिरिमहीरजोजलराजिसदृशैः कपायैःक्रमशश्चतुतिद्वयेकस्थानिका रसा भवन्ति । शुभानां पुना रजो-. जलराजिसदृशैश्चतुःस्थानिकः, गिरिमहीराजिसमैस्तु क्रमाद्वित्रिस्थानिकः, एकस्थानिकस्तु शुभासु नास्त्येव । अथ याश्चतुर्विधस्थानरसा याश्चान्यथा ता आह-विघ्नाः पश्चान्तरायाः, देशावरणानि मत्यावरणादीनि चत्वारि ज्ञानावरणानि, चक्षुर्शनावरणादोनि त्रीणि दर्शनावरणानि चेति सप्त, पुंवेदः, सज्वलनाश्चत्वारः कषायाः, एताः सप्तदश एकद्वित्रिचतुःस्थानरसाः, शेषा द्विस्थानकादयः, अ-. शुभास्वपि सप्तदशवर्जितास्वेकस्थानिको रसो न लभ्यते तथाशिधाध्यवसायबद्धयमानत्वात् ॥ अथ शुभाशुभरसस्वरूपमुपमानैश्चतुःस्थानकादिकञ्च व्युत्पादयितुकाम आह ॥] [निवुइच्छुरसो सहजो, दुति चऊभागकढि इक्कभागतो. इगठाणाई असुहो, असुहाण सुहो सुहाणं तु॥७२॥]८९
[(अ0) निम्बेक्षुरसः कटुमधुरश्च, सहजोऽक्कथितः, द्वित्रिचतुर्भागकथितेकभागान्तः, एकस्थानकादिः, अशुभः अशुभानां, शुभस्तु पुनः शुभानां पुण्यप्रकृतीनामित्यक्षरार्थः । अयंभावः, अकथितः सहजो निम्बरसो यथा कटुस्त देकस्थानिकोऽशुभरसः, अईकथितो यथा कटुतरस्तथा विस्थानिकः, तृतीयो भागो यथा कटुतम-- स्तथात्रिस्थानिकः, अतिकटुतमचतुर्थभागवच्च चतुःस्थानिकः। एवमिक्षुरसस्यापि भावना, नवरं स शुभरसस्यौपम्यम् । विशेषता रसस्वरूपजिज्ञासुना. पञ्चसङ्ग्रहपञ्चमकर्मग्रन्थविवरणादयो . विलोक्याः ॥] (इति रसबन्धः) [अंतिमचउफासदुगंध-पंचवन्नरसकम्मखंधलं । सबजिअणंतगुणरस-मणुजुत्तमणंतयपएसं ॥७३॥] ९०
[( अ ) अन्तिमचतुःस्पर्श शीतोष्णस्निग्धरूक्षस्पर्शयुतं, वृहच्छतकटीकायां तु मृदुलघुस्पर्शद्वयं सूक्ष्मद्रव्येऽवस्थितमेव, अन्यौ द्वौ शीतस्निग्धौ शीतरुक्षी उष्णस्निग्धावुष्णरुक्षौ वाऽविरुद्धाविति चतुःस्पर्श । एतेनौदारिकादिदलिकमष्टस्पर्शयुतमेव गृह्यते। द्विगन्धं, पञ्चवर्ण, पञ्चरसञ्च कर्मस्कन्धदलं, किंविधं तदित्याह-सर्व