________________
(५४) ॥श्रीनवतस्वपरिशिष्टानि. नं. घ थी ज.(६ थी १०)॥
र्नामगोत्रयोः, त्रयस्त्रिंशदतराणि सागरोपमाणि, उत्कर्षादायुःस्थितिबन्धः ॥] . [बारस मुहुत्त जहन्ना, वेयणिए अट्ठ नामगोएसु।। सेसाणंतमुहत्तं, लहुट्टिई स नायबा ॥ ६९॥] ॥८६॥
[(अ० ) उत्कर्षतस्तावदष्टानामपि कर्मणां स्थितयोऽभिहिताः, जघन्यतस्त्वाह-तत्र वेदनीयस्य जघन्या द्वादशमुहूर्ताः, इयं चैर्यापथिकं वेदनीयं विरहय्य, तदाश्रित्य तु प्रथमे बद्धयते द्वितियसमये वेद्यते तृतीये च निर्जीर्यत इति द्विसामायिक्येव स्थितिः। केचिदन्तर्मुहूर्तमपीच्छन्ति । नामगोत्रयोश्च जघन्याऽष्टौ मुहूर्ताः, शेषाणां च ज्ञानावरणीयादीनां पञ्चानामपि अन्तर्मुहूर्तमेव, एषा लघुस्थितिर्ज्ञातव्या ॥] (इति स्थितिबन्धः) [तिव्वो असुहसुहाणं, संकेसंविसोहिओविवजयओ। मंदरसो गिरिमहिरय-जलरेहासरिसकसाएहिं ॥७०]८७
[(अ०) स्थितिबन्धस्वरूपमुक्त्वा रसबन्धस्वरूपमाह, तत्ररसस्तावद्विविधः अशुभः शुभश्च । आद्योऽशुभानां, शुभः शुभानां । प्रत्येकं स च तीव्रमन्दभेदाद् द्विभेद एकस्थानकादिभेदश्च । अथैतेषां बन्धविधिमाह-'तिव्वो' इत्यादि, तीव्र उत्कटो रसः, अशुभशुभानां संक्लेशविशुद्धितः, अयं भावः, अशुभानां द्वयशीतेः पापप्रकृतीनां संक्लेशेन तीव्रकषायोदयेन तीव्रो रसो भवति । शुभानां पुनर्द्विचत्वारिंशतः पुण्यप्रकृतीनां विशुद्ध्या ॥ विपर्ययतो मन्दरसः, अयमर्थः, अशुभानां विशुद्धया मन्दरसः, शुभानान्तु संक्शेनेति ॥ अथैकस्थानकादिरसो यैः प्रत्ययैर्भवति तदाह-गिरिरेखामहीरेखारजोरेखाजलरेखासदृशैः कषायैः । अर्थतान्प्रत्ययानशुभशुभानुवृत्यैकस्थानकादिभिर्योजयन्नाह ॥ ] [चउठाणाई असुहो, सुहन्नहा विग्धदेस आवरणा। पुमसंजलणिगदुति चउ-ठाणरसा सेस दुगमाई ॥७१]८८ ' [ (अ०) चतुःस्थानकादिरशुभः, शुमोन्यथा विपर्ययेण ।