________________
(५६) ॥ श्रीनवतस्वपरिशिष्टानि. नं घ थी ज. (६थी १० ) ॥ जीवानन्तगुणरसाणुयुक्त, अनन्तप्रदेशं च, तदगृहणाति जीव इत्यनेनोत्तरगाथायां सम्बन्धः । अथ कुत्र स्थितं तद् गृह्णातीत्याह-] [एगपएसोगाढं, निअसबपएसी गहेइ जीवो। थोयो आउतदंसो, नामे गोए समो अहिओ ॥७४] ९?
(अ०) एकप्रदेशावगाढं, अयमर्थः, यथा ह्यग्निः स्वप्रदेशस्थान्योग्यपुद्गलानात्मसाद्विदधाति तथाऽयं जीवो येष्वाकाशप्रदेशेप्ववगाढस्तेष्ववस्थितं यत्कर्मपुद्गलद्रव्यं त द्रागादिगुणयोगादाददाति, नत्वनन्तरपरम्परप्रदेशस्थितं, इदमपि निजसर्वप्रदेशती गृह्णाति सर्वेषामपि जीवप्रदेशानां शङख टावयववत्परस्परसम्बद्धत्वात् । अथैकाध्यवसायगृहीतकर्मद्रव्यस्य यावन्मात्रो भागो यस्मिन्कर्मणि निक्षिपति तद ह–'योवो०' अष्टविधवन्धकस्य चित्रगर्भेकाध्यवसायगृहीतकर्मदलिकस्याष्टौ भागःः, ससविधबन्धकस्य सप्त, षड्विधवन्धकस्य षट् , एकवन्धकस्यैक इंति । तत्र युषि स्तोकः कौशः, अयं भावः, शेषकर्मस्थित्य पेक्षयाऽऽयुषोऽल्पस्थितिकत्व त्तत्राल्पं भागं क्षिपति । तदपेक्षया नामगोत्रसोरधिकः परस्परं च समः, स्थिते. रायुर पेक्षयाऽधिकत्वान्मियश्च समत्वात् ॥ ] [विग्यावरण मोहे, सहोवरि वेअणीइ जेणपे । तस्स फुडतं न हवइ, ठिईविलेलेण सेसाणं॥७॥]९२॥
[( अ०) नामकर्मभागापेक्षया विघ्नावरणेषु मोहनीये वेदनीये च क्रमशोऽधिकाधिको भागः, वेदनीयस्याल्पस्थितिकत्वेपि सर्वापरिभागे हेतुमाह, येन अल्पे वेदनोयभागे सति तस्य वेदनीयस्य सुखदुःखवेद्यतया स्फुटत्वं न भवति । अयमर्थः, वेदनीयपुद्गलाः प्रचुरा एव सन्तः सुखदुःखरूपं स्वकार्य व्यक्तीकर्तु प्रभवन्ति, शेषकर्मपुद्गलास्तु स्वल्पा अपि । वेदनीयमृते शेषाणां स्थितिविशेषेण स्थितितारतम्येन भागहीनाधिक्य बोध्यमिति । अचिन्त्यत्वाजीवशर्विचित्रत्वाच्च पुद्गलपरिणतेरेकसमयगृहोतस्य कर्मदलिकस्याष्टधाभागतारतम्येन विभजने नारेका हितायेति । अथोत्तरप्रकृतीनां भागप्ररूपणामाह-]