SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ॥ अव० वृश्यादिसमेतं नवतत्वप्रकरणम् ॥ (५७) [निअजाइलद्धदलिआ–णतंसो होइ सबघाईणं । बज्झंतीण विभजइ, सेसं सेसाण पइसमयं ॥७६॥] ९३ . [( अ०) निजजातिलब्धदलिकानन्तांशः केवलावृत्यादीनां सर्वघातिनीनां कर्मप्रकृतीनां भवति, शेषं सर्वघात्यनन्तभागावशिष्टं प्रदेशाग्रं शेषाणां देशघात्यादीनां बध्यमानानां प्रतिसमयं विमज्यते। अयंभावः, ज्ञानावरणस्य पश्चोत्तरप्रकृतयस्तत्र केवलज्ञानावरणं सर्वघातिनी प्रकृतिः, शेषा देशघातिन्यः, तत्र ज्ञानावरणीये यद्दलिकमायाति तदनस्ततमो भागः सर्वघातिरसयुक्तः केवलज्ञानावरणे क्षिपति, शेषं च विभज्य शेषासु, एवं सर्वत्र, आयुषस्त्वेकस्यैव बद्ध्यमानत्वात्सर्वोपि भागस्तत्र बद्धयमान एवायोति ॥] (इति प्रदेशबन्धः) (इति बन्धतत्त्वम् ८) संतपयपरूवणया, दवपमाणं च खित्त फुसणा य । कालो य अंतर भाग, भावे अप्पाबहुं चेव ॥ १८ ॥ ९४॥ (प्रा० अ०) 'संत' सत्ताभिधायकं पदं सत्पदम्, तस्य प्ररूपणं निरूपणं सत्पदप्ररूपणं, सत्पदप्ररूपणमेव सत्पदप्ररूपणता । गत्यादिमार्गणास्थानेषु सिद्धानां सत्तानिरूपणं कार्यम् १,। सिद्धद्रव्याणां प्रमितिः कार्या २, । क्षेत्रमित्यनुस्वारो गाथानुलोम्यान्नोक्तः, क्षेत्रमाकाशं तच्च प्रस्तावात् सिद्धानामवगाहरूपम्, ३, । स्पर्शनं स्पर्शना सिद्धानां वाच्या ४, । क्षेत्रस्पर्शनयोर्विशेषोऽयं, यदवगाढं तत् क्षेत्रं, यदनवगाढमपि स्पृष्टं सा स्पर्शनेति, । यथैकदेशावगाढस्य परमाणोः सप्तप्रदेशा स्पर्शना । उक्तं च- "जं दव्वं जेसु पएसेसु ओगाढं तावइआ पएसा खितं, जं पुण तं चेव दव्वं तस्स चेष खेत्तस्स छसु दिसासु एग एगं आगासप्पएसपयरं सव्वओ समंतादहि परिप्फुसइ सा फुसणत्ति ॥” ४, कालः सिद्धानां साधनन्तरूपः कथ्यः । ५, अन्तरमुत्पत्तिमाश्रित्य सिद्धानां वाच्यम् ६, । भागः शेषजीवानां कतितमे भागे सिद्धाः ७ । भावः क्षायिकादिः, तन्मध्ये कस्मिन्-भावे सिद्धाः ८, । अल्पबहुत्वं सिद्धानां वाच्यम् । एतानि नव द्वाराणि पर्वसूरिव्याख्यानगाथाभिर्व्याख्याति ... (०) सत्पदप्ररूपणा १, द्रव्यप्रमाण २, क्षेत्रप्रमाणं ३,
SR No.002216
Book TitleNavtattva Sahitya Sangraha
Original Sutra AuthorN/A
AuthorUdayvijay
PublisherMansukhbhai Manekbhai
Publication Year1922
Total Pages250
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy