________________
(५८) n श्रीनवतत्त्वपरिशिष्टानि. नं.घ थी ज.(६ थो १०)॥
स्पर्शना ४, काल: ५, अन्तरं ६, भागः ७, भावः ८, अल्पाबहुलं ९ चेति द्वारगाथार्थः ॥ सत्पदप्ररूपणामाह
(सा० अ०) 'संतपय'० इति मोक्षतत्त्वस्य नव भेदा भवन्ति । ते च एवं ज्ञातव्याः । सत्पदप्ररूपणा १, द्रव्यप्रमाणं २, क्षेत्रप्रमाणं ३, स्पर्शना ४, काल: ५, अंतरं ६, भागः ७, भावः ८, अल्प. बहुत्वं ९, । अथ एतेषां नवानां मोक्षतत्त्वभेदानां स्वरूपं प्ररूपयति।
संतं सुद्धपयत्ता, विज्जंतं खकुसुमं व न असंतं । मुक्खत्ति पयं तस्स उ, परूवणा मग्गणाईहिं ॥१९॥९५!!
(प्रा० अ०) 'संतं सुद्धपयत्ता विज्जतं.' मोक्षइति पदमस्ति सद्विद्यमानं, शुद्धपदत्वात् , केवलपदत्वात् , एकपदादित्यर्थः, यद्यदेकपदं नाम तत्तद्विद्यमानमेव, यथाऽऽकाशं, पुष्पमित्यादि. अशुद्धपदं तु द्विपदादिकं सदसद्वा भवति, यथा सत्कृपजलं धवखदिरपलाशाः । असत् खरविषाणम् । तथा मोक्षपदमसन्न खकुसुममिव । तस्य तु निरूपणा चतुर्दशमार्गणास्थानः कार्या। आदिशब्दात् द्रव्यप्रमाणस्थानादिभिश्च । अथ प्रत्युपन्ननयमाश्रित्य मार्गणास्थानानि भावयन्नाह
(०) सन् विद्यमानो मोक्षः, शुद्धपदखात् , शुद्धपदवमेकपदवाच्यत्वम् , किमुच्यते?, विभक्त्यन्तं पदं तत्सद्रपवक्तृकं यथा घटः, अत्र पश्चावयवं वाक्यम्, अस्ति मोक्षः,१ शुद्धपदेवाच्यखात् २। यच्छुद्धपदवाच्यं तदस्ति यथा घटः३। तथा चाय,४. तस्मादस्ति च मोक्षः५। एतावता ये मोक्षपदं न मन्यन्ते तद्व्यवच्छेदः । यच्च शुद्धपदवाच्यं न स्यात् , पदद्वयसम्बन्धवाच्यं स्यात् तदसदपि स्यात्।अत्रार्थे दृष्टान्तमाह-खकुसुमं पुनरसत्, यत् शुद्धपदवाच्यं न भवति, तत्सदपि न भवति । यथाऽऽकाशकुसुममतोऽन्यन्मोक्षपदमिति पदसिद्धिः । अस्य मोक्षपदस्य प्ररूपणा वक्तव्यता । गतीन्द्रियकाययोगवेदकषायज्ञानसंयमदर्शनलेश्यामव्यसम्यक्त्वसंख्याहाररूपैर्मार्ग