________________
. ॥ अव० वृत्यादिसमेतं नवतत्वप्रकरणम् ॥ (५९) णस्थानैयेति गाथार्थः ॥ एतेषां मार्गणास्थानानां मध्ये यानि मोक्षगतौ सम्भवन्ति तान्येवाह
(सा० अ०) 'संतं सुद्ध'० इति-संतमिति सद् विद्यमानं, मोक्ष इति पदं मोक्ष इति नाम, कस्माद्धेतोः। शुद्धपदत्वात् असंयुक्तपदत्वात् एकपदत्वादित्यर्थः । खकुसुमवत् आकाशपुष्पवत् , 'न असंतं' न असत् अविद्यमानं । अयं भावः, सकलेऽपि जगति यस्य यस्य पदार्थस्य एकपदं नाम भवति स स पदार्थः अस्त्येव, यथा घटपटलकुटादि । एवं मोक्षस्यापि मोक्षइति एकपदं नाम, अतः कारणात् मोक्षोस्त्येव । न पुनः आकाशकुसुमवन्नास्ति । आकाशकुसुमस्य एकपदं नाम नास्ति किंतु द्विपदं नामास्ति । यत् यत् वस्तु द्विपदनामवाच्यं भवति तत् तत् एकांतेन विद्यमानं न भवति। किंतु किंचित् गोशृंगमहिषशृंगादिवत् विद्यमानं, किंचित् पुनः खर शृंगाश्वशृंगाकाशकुसुमादिवत् अविद्यमानं। मोक्षइति पदं पुनः एकपदत्वात् अस्त्येव । अनेन अनुमानप्रमाणेन मोक्षो विद्यमानोऽस्ति इति सिद्धयति । तत्र मोक्षस्य सत्पदरूपस्य, प्ररूपणा विचारणा, गत्यादिमाणाद्वारा या विधीयते सा सत्पदप्ररूपणा, एतामेव प्ररूपयति ॥ गइ? इंदिय२ काये ३, जोए ४ वेए५ कसाय नाणे अ७। संजम ८ दसण९ लेसा १०, भव ११ सम्मे १२ सन्नि १३
. . आहारे १४ ॥२०॥१६॥ . (प्रा० अ०) पञ्चसु गतिषु सिद्धिगतावेष सिद्धाः सन्ति १, इन्द्रियद्वारेणैकेन्द्रियादिपञ्चेन्द्रियान्तेषु सिद्धत्वं नास्ति । सर्वथा शरीरपरित्यागेनैव सिद्धत्वपर्यायोत्पत्तः। उक्तं च-"इहं बोंदों चइत्ताणं, तत्थ गंतूण सिज्झइ ।” अत एवानिन्द्रियाः सिद्धाः । २, कायद्वारे' कायः शरीरं तद्योगात् षड्जीवनिकायाः, एषु सिद्धपदं न, तद्विपक्षाकायरूपत्वात् सिद्धानां " असरा जीवघणा" इति प्रामाण्यात् । ३,'योगद्वारे' योगनिघा, तत्रैकेन्द्रियाणां केवलः काययोगः, कायवाग्योगौ तु समुदितौ द्रोन्द्रियाधसंज्ञिपञ्चेन्द्रियान्तानां, कायवाल्मनोयोगाः संज्ञिपञ्चेन्द्रियपर्याप्तानामेव, एषु सिद्धसत्ता ना..