________________
(६०) ॥ श्रीनवतस्वपरिशिष्टानि. नं. घ थी ज. (६ थी १० ॥
स्ति, अयोगित्वात् सिद्धानाम् , अयोगित्वं च शरीराधभावात्तेषाम् ।।, 'वेदद्वारे' त्रिविधेऽपि सिद्धपदं न । तद्विपक्षावेदस्वभावत्वात् , अवेदत्वं चाशरीरत्वादिति ।२, एवं कषायेऽपि सिद्धासम्भवः, अकपायत्वात्सिद्धानां, अकषायत्वं चाकर्मत्वात् । ६, 'ज्ञानद्वारे' आयेषु चतुर्षु त्रिष्वज्ञानेषु च सिद्धत्वं न, तेषां क्षायोपशमिकत्वात् , केवलज्ञानेस्ति, तस्य क्षायिकत्वात् । ७, 'संयमद्वारे' संयमश्चारित्रं, तच्च सामायिकच्छेदोपस्थापनीयाधं देशसंयमासंयमौ च, एषु न सिद्धपदं, तेषां शरीरादिभावे भावात् , सिद्धानां च तद्विपरीतत्वात् । अत एव "सिद्धो नो चारित्ती नो अचारित्तीति' व्यवपदिश्यते।८, 'दर्शनद्वारे' दर्शनानि चत्वारि चक्षुरादीनि, एषामाद्यत्रिके न सिद्धाः, केवलदर्शने तु केवलज्ञानवञ्चिन्तेति । ९,'लेश्या' कृष्णनीलकापोततेजःपद्मशुक्लाः, षट्स्वपि सिद्धपदाभावः, भवस्थजीवपयित्वात्तासां, अलेश्यत्वं च सिद्धानामिति ।१०, भवद्वारे' भवसिद्धिका अभव्याः तत्र सिद्धपः न । यतः, 'सिद्धे नो भव्वे नो अभब्वे इत्याप्तवचनम् ।११, 'सम्यक्त्वद्वारे' तानि पञ्च क्षायिकक्षायोपशमिकौपशमिकसास्वादनवेदकभेदात् । तद्विपक्षस्तु मिथ्यात्वमिश्रौ । क्षायिकजितेष्वेषु षट्सु न सिद्धत्वं, क्षायोपशमिकादिभाववर्तित्वात् तेषाम् । क्षायिकसम्यक्त्वे त्वस्ति । यतस्तद द्विविधं शुद्धमशुद्धं च, तत्र शुद्धं अपायसद्रव्यरहितं भवस्थकेवलिनां सिद्धानां च, शुद्धजीवस्वरूपं साधनन्तं, अशुद्धं चापायसहचारि श्रेणिकादेरेव सादिसान्तं, तत्राशुद्धक्षायिकेऽपि न सिद्धसत्ता, तस्यापायसहचारित्वेन भवस्थकाल एव भावात् । शुद्धक्षायिकसम्यक्त्वे त्व ऽस्ति, तस्य सिद्धावस्थायामप्यप्रतिघातात् । अपायस्य मतिज्ञानांशस्य सद्रव्याणां च शुद्धसम्यक्त्वदलिकानामभाव एव तस्य भावादिति तात्पर्यम् ।१२, संज्ञिद्वारे' संज्ञा यद्यपि त्रिधा हेतुवादोपदेशिकी दीर्घकालिकी द्रष्टिवादोपदेशिकी चेति, तथाऽपि रूढत्यादीर्घकालिक्येव ग्राह्या, संज्ञिन इदं कृतमिदं करोमीदं करिष्यामीतित्रिकालविषयमनोज्ञानवन्तः, तद्विपरीतास्त्वसंज्ञिनः, द्वयेऽपि न सिद्धपदं, 'सिद्धो नो सन्नी नो असन्नीति' वचनात् ।१३, आहारकद्वार' आहारनिधौजोलोमप्रक्षेपाहारभेदात् , स विद्यते येषां ते आहारकाः । न तेषु सिद्धत्वं भवस्थानामेव तद्भावात् । अनाहारके