________________
॥ अव वृत्यादिसमेतं नवतत्वप्रकरणम् ॥
(६१),
त्वस्ति 'सिद्धा य अणाहारा' इति वचनात् ।१४,तदेवं सम्भवासम्भ-.. घकथनपरेण चतुर्दशस्वपि गत्यादिमार्गणास्थानेषु कृता सत्पदप्ररूपणा । अथ पूर्वपर्यायसारनयालम्बनेन तामाहनरगइपणिदि तस भव, सनिअहक्खाय खइयसम्मत्ते। मुक्खोणहार केवल-दसणनाणे न सेसेसु ॥ २२ ॥ ९६॥
(प्रा० अ०) 'नर' चरमभवान्ते शैलेश्यवस्थायामतीतनयमाश्रित्य नरगतिपश्चेन्द्रियादावेव मोक्ष इति सिद्धपदं विलोकनीयम्, न तिर्यग्गत्येकेन्द्रियादिषु, यत एषु स्थिता न सिद्धयन्तीति। 'न सेसेसु'त्ति न शेषेषु योगलेश्यावेदकषायमार्गणास्थानेषु सिद्धसत्ता । यतः शैलेश्यवस्थाया अर्वाक्षिप्तत्वात्तेषाम् । अथ सिद्धानां द्रव्यप्रमाणमा
(१०)-नरगतिः, 'पणिदि' पंचेन्द्रियजातिः, त्रसभव्यसंज्ञियथाख्यातचारित्रं क्षायिकसम्यक्त्वं तथा अनाहारकेवलज्ञान केवलदर्शनानि, मार्गणस्थानेभ्य एतेषु मोक्षः संभवति, न शेषेष्वेतेभ्योऽवशिष्यमाणेषु मार्गणास्थानेषु मोक्ष इति गाथार्थः । सत्पदस्वरूपमुक्त्वा द्वितीयं द्रव्यप्रमाणं गाथार्धेनाह
(सा० अ०) 'नरगइ इति'-गतिः ४ नरकगतिः तिर्यग्गतिः मनुष्यगतिः देवगतिः, तत्र मनुष्यगतौ मोक्षो भवति न शेषगतित्रयेऽपि । १, इंद्रियमार्गणास्थानं पंचधा एकैद्रियादिभेदात् ज्ञातव्यं, तत्र पंचेंद्रियद्वारे मोक्षो भवति एकेद्रियादिचतुष्टये न भवति। २, कायमार्गणास्थानं षडूविधं पृथ्वीकायापकायतेजस्कायवायुकायवनस्पतिकायत्रसकायभेदैर्ज्ञातव्यं । तत्र त्रसकायवर्तिनो जीवा योग्यतायां मोक्षं यांति, शेषपंचकायस्था जीवा मोक्षंन यांति। ३, भवसिद्धिकमार्गणास्थानं द्विधा । ४, भवसिद्धिका अभवसिद्धिकाश्च । तत्र भवसिद्धिकाः भव्या एतविपरीता अभवसिद्धिकाः । तत्र भवसिद्धिका मोक्षं यांति अभवसिद्धिका स्तु न सिद्धूयंति ४,संज्ञिमार्गणास्थानं द्विधा संज्ञिनः असंज्ञिनश्च । तत्र संशिनां मोक्षो भवति न असंज्ञिनां ।५,चारित्रमार्गणास्थानं पंचधा।