________________
२ ) ॥ श्रीनवतत्वपरिशिष्टानि. नं. घ थी ज. ( ६ थी १० ) ॥
६, सामायिकचारित्रं १, छेदोपस्थानीयं २, परिहारविशुद्धिकं ३, सूक्ष्मसंपरायं ४, यथाख्यातचारित्रं ५, तत्र श्राद्धसाधूनां सामायिकं द्वेधा देशसामायिकं च सर्वसामायिकं । तत्र देशसामायिकं श्राव काणां भवति । सर्व सामायिकं यावज्जीवं सर्वसावद्यव्यापारनिषेधरूपं । इदं सर्वतोर्थवर्त्तिसाधूनां । १, द्वितीयं छेदोपस्थापन तच्च प्रथमचरमतीर्थकर तीर्थवर्त्तिसाधूनां पूर्वपर्यायच्छेदेन पंचमहाव्रतेषु उपस्थापनरूपं । २, तृतीयं परिहारविशुद्धिकं तत् नव साधून समुदायेऽष्टादशमासान् यावत्तपोविशेषरूपं, पश्चात् जिनकल्पं प्रतिपद्यते स्थरविरकल्पिकं वा । ३, चतुर्थं सूक्ष्मसंपरायं ईषन्मात्र संज्वलन लोभाणुमात्रोदयरूपं दशम गुणस्थानवर्ति साधूनां भवति । यथाख्यातं सर्वमोहनीयाष्टाविंशतिप्रकृतीनां षोडशकषायनवनोकषायमिथ्यात्वमिश्रसम्यक्त्वत्रिपुजरूपाणां उदयाभावाद् भवति । ५, तत्र यथाख्यातचारित्रेण मोक्षो भवति न शेषचतुश्चारित्रेषु । ६, सम्यक्त्वमार्गणास्थानं पंचधा । औपशमिकं ? सास्वादनं २ क्षायोपशमिकं ३ वेदकं ४ क्षायिकं ५ । तत्र औपशमिकसम्यक्त्वलाभः एवं स्यात् । ज्ञानावरणीय - दर्शनावरणीय - वेदनीयान्तरायकर्मणां त्रिंशत्क टाकोटी सागरोपमस्थितिप्रमाणानां एकोनत्रिंशत्कोटा कोटी सागरोपमस्थितेः क्षये मोहनीयकर्मणः सप्ततिकोटाकोटीसागरोपमस्थितिकस्य एकोनसप्ततिकोटाकोटीसागरोपमस्थितेः क्षयात् नामगोत्रयोविंशति कोटा कोटीसागरोप प्रमाणयोरेकोनविंशतिकोटाकोटी सागरोपमस्थितेः क्षयात् तेषां एकैककोटाकोटीसागरोपमस्थितिमध्यप्रविष्टानां यथाप्रवृत्तिकरणेन निबिडरागद्वेषपरिणामरूपो दुर्भेदो यो ग्रंथिदेशस्तं प्राप्तो जीवः अपूर्वकरणेन ग्रंथिदेशं भिनत्ति, समयं समयं प्रति अनंतविशुद्ध्या विशु
मानो जीवः तत्र अंतरकरणेन मिथ्यात्वस्थित रेककोटाकोटिसागरोपमस्थितिप्रमाणायाः स्थितिद्वयं करोति । प्रथमा स्थितिः आन्तमुहूर्तकी द्वितीया तदूना शेषस्थितिः । प्रथमस्थितौ प्रतिसमयं मिथ्यात्वपुद्गलाननुभवनेन क्षीणायां सत्यों अंतरकरणस्य आद्यसमय एव औपशमिकसम्यक्त्वं लभते जीवः । १, तत् अपौगलिकं ज्ञेयं अंतर्मुहूर्त्तकालं यावद्भवति । या द्वितीया स्थितिः मिथ्यात्व - स्य वर्त्तते तत्र पुंजत्रयं करोति शुद्धं अर्द्धविशुद्धं अशुद्धं च । यथा कोद्रवाणां गोमयपानीयादिभिः उत्तारितमदनभावानां शुद्धकुंजः ।