________________
॥ श्रव० वृत्यादिसमेतं नवतत्त्वप्रकरणम् ॥
(३)
अर्वोत्तारितमदनानां अर्द्धशुद्धपुंजन अनुत्तारितमदनानां अशुद्धः पुनः एवं मिथ्यात्वदलिकस्यापि क्षपितमिथ्यात्वानुभावस्य यः पुंजः स शुद्धः क्षायोपशमिकसम्यक्त्वरूपः कथ्यते । यः अशुद्धपुंजः स मिश्रः कथ्यते । योऽशुद्धपुंजस्तन्मिथ्यात्वं । तत्र औपशमिकसम्यक्त्त्वकालस्य जघन्यतः एकसमयशेषे उत्कृष्टतः षडावलिकाशेषे अनंतानुबंध्युदयो भवति । येन औपशमिकसम्यक्त्वं कलुषीभवति । तदा सम्यक्त्ववमनकाले सास्वादनं भवति । २, पूर्वोक्तपुंजत्रयमध्ये यदा शुद्धजोदयस्तदा क्षायोपशमिकसम्यक्त्वं भवति।३,मिथ्यात्वमिश्रलक्षणपुञ्जद्वयक्षये सति तृतोयस्य क्षयकालस्य चरमसमये वेदकसम्यक्त्वं भवति ।४, क्रोधमानमायालोभानां अनानुदिनां चतुर्णा क्षये मिथ्यात्वमिश्रपौगलिकसम्यक्त्वरूपपुंजत्रयक्षये क्षायिकं सम्यक्त्वं लभते जीवः तदपि अपौगलिकं । ५,तत्र क्षायिकसम्यक्त्वे भवति मोक्षः, न शेषसम्यक्त्वचतुष्टये।७, अनाहारमार्गणास्थानं द्विधा आहारका नाहारकभेदात् । तत्र अनाहारकस्य मोक्षो भवति, न आहारकस्य । ८, ज्ञानमार्गणास्थानं पंचधा मतिज्ञानरश्रुतज्ञानाश्वधिज्ञान ३मनःपर्यवज्ञानष्टकेवलज्ञान भेदात् । तत्र केवलज्ञाने मोक्षो भवति, न शेषज्ञानचतुष्टये। ९, दर्शनमार्गणास्थानं चतुर्द्धा चक्षुर्दर्शना१चक्षुर्दर्शनारवघिदर्शन३केवलदर्शनष्ट भेदात् । तत्र केवलदर्शने मोक्षो भवति, न शेषदर्शनत्रयेऽपि । १०, इति सत्पदप्ररूपणाद्वारं व्याख्यातं । १,अथातः परं द्रव्यप्रमाणं कथ्यते। दवपमाणे सिद्धाण, जीवदव्वाणि हुंतणंताणि ! लोगस्स असंखिज्जे, भागे एगो अ सबै वि ॥ २२॥९८॥
(प्रा० अ०) 'दव्व'० सिद्धद्रव्यप्रमाणे चिन्त्यमाने जीवद्रव्याणि भवन्ति अनन्तानि । अभव्येभ्योऽनन्तगुणाः। सर्वजीवानामनन्तमाग इत्यर्थः।२,लोकस्यासङ्ख्येयभाग एकः सर्वे वाऽवगाढाः। यद्यपि चेदमुक्तं तथापि सर्वावगाहचिन्तायां वृहत्तमोऽसङ्ख्यभागः, एकावगाहे लघुतम इति । असङ्ख्यातराशेरसङ्ख्यातभेदभिन्नत्वादुभयत्राप्यसङ्ख्यातत्वं न विरुद्धं ॥३,
(वृ०) र प्रमाणे जीवसङ्ख्यायां क्रियमाणायां सिद्धानामष्टकर्मरहितानां जीवद्रव्याण्यनन्तानि भवन्ति । सिद्धानामानन्त्या