________________
(६४ ) ॥ श्रीनवतत्यपरिशिष्टानि. नं. घ थी ज. (६ थी १०)॥ दिति गाथाप्रथमार्थिः ॥ २,द्रव्यप्रमाणमुक्त्वा तृतीय क्षेत्रस्वरूपं गाथोत्तरार्द्धनाह- चतुर्दशरज्ज्वात्मकलोकस्यासङ्ख्यांशे क्षेत्रे एकः सिद्धः, न केवलमेकः सिद्धः, सर्वेऽपि सिद्धाः । ३, यतोऽसख्यातस्य तारतम्येनासङ्ख्यभेदलात्, इति गाथार्थः ॥ क्षेत्रस्वरूपमुक्त्वा चतुर्थ स्पर्शनाद्वारं गाथाप्रथमपादार्धेनाह- . .
(सा० अ०) 'दव्व० इति' द्रव्यप्रमाणद्वारे चित्यमाने सिद्धानां जीवद्रव्याणि अनंतानि भवंति । इति द्रव्यप्रमाणद्वारं समाप्तं । २,क्षेत्रद्वारे चिंत्यमाने लोकाकाशस्य असंख्येयतमे भागे एकः सिद्धो वर्त्तते । सर्वे वा सिद्धा लोकाकाशस्य असंख्येयतमे भागे वर्तते। परं एकसिद्धव्याप्तक्षेत्रापेक्षया सर्वसिद्धव्याप्तक्षेत्रमधिकप्रमाणं । इति क्षेत्रद्वार सम तम् । ३,अथ स्पर्शनादि द्वारत्रयं कथ्यते। फुसणा अहिआ कालो, इगसिद्धपहुंच साइओणंतो। पडिवायाभावाओ, सिद्धाणं अंतरं नस्थि ॥ २३ ॥ ९९ ॥
(प्रा० अ०) 'फुस' क्षेत्रावगाहतः स्पर्शनाधिका भवति । अयमर्थः, यावति क्षेत्रे सर्वे सिद्धा अवगाढा एको वा सिद्धोऽवगाढस्तावतः क्षेत्रस्य येऽनन्तराः सर्वे दिक्षु प्रदेशास्ते तैः स्पृश्यन्त इति तावती क्षेत्रस्पर्शनेति । ४,'काल' एकसिद्धं प्रतीत्य साद्यनंतः, सर्वसिद्धापेक्षया त्वनन्तोऽनादिश्वाभणितोऽपि स्वयमभ्यूह्यः।५,प्रतिपाताभावात्सिद्धानामन्तरं च्यवनस्य नास्ति । उत्पातमाश्रित्यान्तरमस्ति । यथा जघन्यतः एकः समयः, उत्कर्षतः षण्मासाः॥ . (वृ०) यावदेकेन सिद्धेन सिद्धिक्षेत्रं व्याप्तं तदनन्तैः सिद्धैः याप्तं, यदुक्तमागमे- "जत्य एगो सिद्धो, तत्थ अणंता सिद्धा" इति पादाथिः।। स्पर्शनास्वरूपमुक्त्वा पञ्चमं कालद्वारस्वरूपं गाथाप्रथमानाह-'अइयाकालो,इगसिद्धमविक्ख साइओणंतो॥'अतीतादिकः काल एकसिद्धापेक्षया साधनन्तः । यथा-भगवान् श्रीमहा