________________
॥ अष० वृत्यादिसमेतं नवतत्वप्रकरणम् ॥ (६५) वारः सिद्धः सादिस्ततश्चयवनामावादनन्तं कालं यावत्तवावस्थानादिति साधनन्तता, सर्वसिद्धापेक्षया अनाधनन्तश्च, पूर्वमनन्ता अनादिकालं यावत्सिद्धाः ततस्तेषां च्यवनाभावादनन्तता। इति सर्वसिद्धापेक्षया अनाद्यनन्ता, इति गाथाद्यार्थः ॥ कालद्वारमु. क्त्वा षष्ठमन्तरद्वारं गायोत्तरार्द्धनाह- 'पडिवायाभावाओ, सिद्धाणं अंतरं नत्थि ॥' प्रतिपाताभावाञ्चयवनाभावात् , सिद्धानामन्तरं नास्ति । सर्वेऽपि समाना इति गाथार्थः । अन्तरद्वारमुक्त्वा सप्तमं भामद्वारं गायापूर्वार्द्धनाइ- . __(सा० अ०) 'फुसणा इति' क्षेत्रात् स्पर्शना अधिका । यथा एकस्मिन् आकाशप्रदेशे स्थितस्य परमाणोः सप्ताकाशप्रदेशस्य स्पर्शना भवति । एवं सिद्धानामपि क्षेत्रात् स्पर्शना अधिका भवति ॥ एवं स्पर्शनाद्वारं व्याख्यातं ॥ अथ कालद्वारं व्याख्यायते । एकं सिद्धं प्रतीत्य आश्रित्य कालः सादिः अनंतश्च वर्त्तते । सर्वसिद्धानाश्रित्य कालः अनादिः अनंतः । यत्र ये केचन सिद्धाः यदा सिद्धा स्तदा तेषां आदिः, तदनु प्रतिपाताभावात् अंतो न भवति ॥ एवं कालद्वारं व्याख्यातं ॥ अथ अंतरद्वारं कथ्यते ॥ प्रतिपातस्य अभावात् सिद्धानां अंतरं नास्ति । यतः अंतरं तदुच्यते यत् तं भावं प्राप्य पुनरन्यत्र गत्वा पुनरपि स एव भावः प्राप्यते। एवंविधं अंतरं सिद्धानां नास्ति । प्रतिपाताभावात् । एवं अंतरद्वारं समाप्तम् ॥ अथ भागादिद्वारं लिख्यतेसम्वजिआणामणंते, भागे ते तेसि दसणं नाणं । खइए भावे परिणा-मिए अ पुण होइ जीवत्त॥२४॥१०॥ . (प्रा० अ०) 'सव्व०' अभव्येभ्योऽनन्तगुणा अपि सर्वजीवानामनन्ततमे भागे ते सिद्धाः स्युः॥ 'भावद्वारे' क्षायिकपारिणामिकयोर्भावयोः सिद्धा भवन्ति । विशेषचिन्तायां तेषु सिद्धषु पुननि दर्शनं च क्षायिके भावे वर्तते, जीवत्वं पारिणामिके भावे च । अयं भावः, क्षायिको मावो नषधा- दानलाभभोगोपभोगवीर्यस्वरूपलब्धिपश्चकं चारित्रसम्यक्त्वे केवलज्ञानदर्शने च, आधाः सप्त भेदा मोक्षेऽसम्मविनः, केवलज्ञानदर्शनभेदौ सम्भविनौ