________________
(६)॥ श्रीनवतस्वपरिशिष्टानि. नं. घ थी ज. (६ थी १०) . गृहीतौ स्तः । पारिणामिकस्त्रिधा भव्याभव्यत्वजीवत्वानि । भण्याभव्यत्वरूपौ सिद्धासम्भविनौ भेदौ । जीवत्वं भवति । एषामनाधनन्तः पारिणामिको भावः। इत्थमेव सदापरिणामित्वात् । न जीवोऽजीवत्वं, अजीवो जीवत्वं वा परिणमति । एवं भव्याभव्ययोर्भावना कार्या । अथाल्पबहुत्वद्वारमाह-॥ . (वृ० ) तेषां सिद्धानां ज्ञानं दर्शनं च सर्वेषां जीवानामनन्ततमे भागे विद्यते । 'नो चे जीवोऽजीवत्तणं पाविज्जइति । अतः केवलज्ञानस्यानन्ततमो भागो निगोदेवाप्यत इति । तदभावे तेषामजीवता स्यात् ।। इति गाथाप्रथमार्थिः ॥ भागद्वारमुक्त्वाऽष्टमं भावद्वारमाह- औपशमिक क्षायिकरक्षायोपशमिकौदयिक४पारिणामिक५सानिपातिकरूपाः षड्भावाः ६ । तत्र कषायाणामुपशमादौपशमिकं सम्यक्त्वं, . किञ्चित्क्षयेण किश्चिदुपशमाच्च क्षायोगशमिक सम्यक्त्व भवति । एकभवगतित्यागाद् द्वितीयगतिगमनोदथेन औदयिको भावः। स च चातुर्गतिकभवन्त्रमणैः सम्भवति । एकस्माद्भवाद्भवान्तरगमनेन पारिणामिको भावः । उक्तं च- “परिणामो ह्यर्थान्तर-गमनं न च सर्वथा व्यवस्थानम् । न च सर्वथा विनाशः, परिणामस्तद्विदामिष्टः ॥ १ ॥ इति । द्विकत्रिकचतुष्कपश्चकपाक्योगात् सानिपातिको भावः । इत्येतेषां भावानां मध्यात् क्षायिकं सम्यक्त्वं सिद्धेषु सम्भवति । अतः क्षायिके भावे पारिणामिके च भावे वर्तमानानां सिद्धानां पुनर्जीवत्वं भवति । एतदभावे तेषामजीवतापत्तेरिति गाथोत्तरार्द्धार्थः ॥ भावद्वारमुक्त्वा नवममल्पबहुवस्वरूपमाह
(सा० अ०) 'सव्वजियाण इति' सर्वजीवानां अनंततमे भागे वर्तते सर्वेऽपि सिद्धाः ॥ एवं भागद्वारं समाप्तं ॥ अथ भावद्वारं लिख्यते ॥ तेषु सिद्धेषु केवलज्ञानं केवलदर्शनं च क्षायिक भावे वर्तते । पारिणामिके च भावे जीवितस्वं वर्तते ॥ एवं भावद्वारं समाप्तं ॥ अथ अल्पबहुत्वद्वारं लिख्यते ॥