Book Title: Nandanvan Kalpataru 2019 06 SrNo 42 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 7
________________ वाचकानां प्रतिभावः सप्रश्रयं प्रणतयः आचार्यचरणेषु । प्रणम्यते च मान्या कीर्तित्रयी। "नीत्या प्रीत्या च स्वस्वकर्मणि जागरूकैः भाव्यम्" इति नन्दनवनकल्पतरोः ३९तमे अङ्के व्यक्तः विचारः ४०तमे अङ्के पुष्टः जातः । पुनः पुनः एतदर्थं विचार्यम् आचरणीयम् च ।। __ "वयं राष्ट्रे जागृयाम पुरोहिताः" इति कृत्वा, अस्माकं मनीषिभिः एतदेव, भावनापूर्वकम् आदिष्टम् । ये नाम, पुरः स्थितं हितं विचारयन्ति, ते सर्वेऽपि पुरोहिताः जागृताः भवेयुः । अत्र, प्रथमपुरुषतः कृतः निर्देशः, निर्दिशति यद् एतादृशाः वयमेव पुरोहिताः । अस्माभिरेव एकैकशः जागृतिः सेव्या । "एकाकी अहं किं कुर्याम् ?" इति विचारणा त्याज्या । वयमेव समर्थाः सर्वं साधयितुम् । विचारेणाऽनेन, कार्यः कार्यारम्भः । शनैः शनैः स्यात् संघबलम्, शनैः शनैः स्यात् साफल्यम् ॥ इति । पुनश्च भाव्यं विश्वगुरुत्वम् । अस्मत्प्रयत्नैरेव शक्यं तत् । देवस्तत्र सहायकृत् । अस्तु श्रीः । डो. वासुदेव वि. पाठकः 'वागर्थः' अहमदाबाद-१५Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 136