Book Title: Nandanvan Kalpataru 2019 06 SrNo 42 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 6
________________ प्रत्येकं मनुष्यः स्वजीवने एकस्मात् तत्त्वादत्यर्थं बिभेति । तत् तत्त्वं खल्वस्ति निष्फलता । जीवनस्य यस्मिन् कस्मिंश्चिदपि क्षेत्रे निष्फलतायाः सम्मुखीकरणं मनुष्यं विह्वलं निराशं च करोति । किन्तु येन जनेन पुस्तकवाचनेन स्वमनः सज्जीकृतमस्ति स एतस्मान्नैराश्यादतीव सारल्येन निष्क्रान्तो भवति, स्वमनसि उल्लासं प्रपूर्य साफल्यप्राप्त्यर्थं प्रयत्नशीलो भवति । एवमनेके लाभाः पुस्तकवाचनात् जायन्ते । परं साकल्येन वक्तव्यं चेद् यो मनुष्यो यावन्ति पुस्तकानि पठितवान् स तावाननुभवसमृद्धः, स एव सत्यतया जीवनं जीवितः, जगतः प्रवाहैश्च परिचितो भवति । परमेतत्सर्वं प्रापणार्थं पुस्तकमुद्घाट्य पठनीयं खलु ? वयमपि किलाऽधिकाधिकपुस्तकानि पठेम बहुश्रुतत्वं च प्राप्नुयामेत्याशासमानो विरमामि । पं. कल्याणकीर्तिविजयः महावीरस्वामिजन्मकल्याणकदिनम् चेत्र - शुक्ला त्रयोदशी, २०७५ श्रीस्तम्भतीर्थनगरम् आर्थिकसौजन्यम् नन्दनवनकल्पतरोर्द्वाचत्वारिंश्याः (४२) शाखायाः प्रकाशनार्थं शासनसम्राटसमुदायवर्तिन्याः साध्वी श्रीधृतियशाश्रियः शिष्यायाः सा. श्री परागयशाश्रियो वर्धमानतपसः ओलिकाशतस्य पूर्णाहुति निमित्तीकृत्य सूरतमहानगरस्थेन श्रीवराछाजैनसङ्खेन सम्पूर्ण आर्थिकः सहयोगः कृतोऽस्ति । एतदर्थं बहुशो धन्यवादाः ॥ 5Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 136