Book Title: Nandanvan Kalpataru 2019 06 SrNo 42 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 4
________________ प्रास्ताविकम्...... युगोऽयं ज्ञानप्रधानोऽस्ति । सर्वत्र प्रायो दरीदृश्यते यज्जनाः किञ्चन नूतनं ज्ञानं (information) प्राप्तुं, किञ्चिदभिनवं शिक्षितुं प्रयतमाना वर्तन्ते । यो हि समधिकज्ञानवान् स एवाऽभिप्रेते क्षेत्रेऽग्रेसरो भवितुमर्हति नाऽन्यः । यो ह्यन्येभ्योऽधिकं किञ्चिच्छिक्षितवान् स एव सफलः परिगण्यते । अतो ज्ञानं शिक्षणं च सर्वथाऽनिवार्यमपरिहार्यं च । एतदर्थमेव च यत्र तत्र सर्वत्र शिक्षणवर्गाः (Coaching Classes) संस्थानानि च (institutions) प्रवर्तमानानि दृश्यन्ते । (एतैर्वर्गः संस्थानैश्च सामान्यजनतायाः कश्चन लाभो भवेद्वा न वा, परं तत्सञ्चालकानां तु भवत्येवेति त्वन्या वार्ता !!) किन्तु, सामाजस्योपरितने तले केचन प्रबुद्धा जना वर्तन्ते । तेऽन्ये च केचन स्वाभिप्रेतक्षेत्रेष्वत्यन्तं साफल्यं प्राप्तवन्तो जना वदन्ति यद् - अग्रेसरीभवितुं साफल्यं च प्राप्तुं केवलं शिक्षणं ज्ञानं वा न पर्याप्तमस्ति । आवश्यकमनिवार्य चाऽप्यस्त्येव परं पर्याप्तं तु नैवाऽस्ति । एतदर्थं तु तीव्रतयाऽऽवश्यकताऽस्ति पुस्तकपठनस्य । यावन्त्यधिकानि पुस्तकानि पठ्यन्ते तावदधिकमग्रेसरत्वं, तावच्चाऽधिकं साफल्यम् । आधुनिकविज्ञानिभिरप्येतत् प्रमाणीकृतमस्ति यत् - पुस्तकवाचनेन जनस्य कल्पनाशक्तिः प्राचुर्येण विकसिता भवति । सा च कल्पनाशक्तिविकासस्य नूतना दिश उद्घाटयति । मनसि सुषुप्तावस्थायां स्थितां सर्जनशक्तिं संरचनासामर्थ्यं च जागरयति जनं च प्रबुद्धं करोति । येन लिखितानां पुस्तकानां कोटिशोमिताः प्रतयोऽद्यपर्यन्तं विक्रीताः, यश्चाऽद्यत्वे जगतोऽपि श्रेष्ठानां पञ्चानां लेखकानामन्यतमो वर्तते तादृशो जेफ्री-आर्चरः नाम लेखक एकस्मिन् साक्षात्कारे (interview) अवदत् - "कलाक्षेत्रे साहित्यक्षेत्रे वा प्रवृत्त एकोऽपि जनस्तादृशो नास्ति येन पुस्तकवाचनस्याPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 136