Book Title: Nandanvan Kalpataru 2009 10 SrNo 23
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 7
________________ वाचकाठां प्रतिभावः मान्याः, सादरं प्रणतयः । द्वाविंशे नन्दनवनकल्पतरौ प्रास्ताविकं नैतिकताक्षेत्रे य आतङ्गो जातः, तस्य निवारणाय प्रेरयति । श्रीदेवर्षिकलानाथशास्त्रिणः चाटुचर्याचमत्काराः इति कथा न केवलं चित्ते हास्यं जनयति, अपि तु वर्तमानसमाजस्य यथार्थतामपि निगदति । पत्रकाराः, पत्रिकासम्पादकाश्च तान् ग्रन्थान् समीक्षन्ते, तेषामेव च विचारान् सततं प्राकाश्यं नयन्ति, ये सत्तायां विराजन्ते । मयाऽपि मन्ये जीवने तथ्यमिदमनुभूतम् । अनेके संस्कृतग्रन्था मया पत्रपत्रिकासु समीक्षिताः, किन्तु यदा मया स्वयमेको ग्रन्थः प्राकाश्यं नीतः, तर्हि तस्य समीक्षा सम्बद्धसम्पादकवयः प्रायशो न विहिता । स्वकीयां प्रशस्ति नाऽहं कामये, किन्तु प्रणीतग्रन्थस्य दोषाणां प्रकाशनं तु युज्यते एव । मान्यमुनिरत्नकीर्तिविजयस्य कथा 'कलिकालस्य भरतः' सद्व्यवहारस्योत्तमां शिक्षा प्रयच्छति । साम्प्रतं मोहनसदृशोऽनुजः, रमेशतुल्योऽग्रजश्च समाजे न विराजते । एवंविधाभिः कथाभिः पाठकानां हृदये सद्भावाः सञ्जायेरन्, किन्तु मनसि खेदोऽनुभूयते यज्जनाः एतादृशीः कथाः पठितुं नाऽभिलषन्ति । सन्दर्भेऽस्मिन् नन्दनवनकल्पतरोः प्रयत्नाः प्रशंसनीयतराः सन्ति । जयतु संस्कृतं संस्कृतिश्च । डा. रूपनारायणपाण्डेयः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 126