Book Title: Manipati Rajarshi Charitam
Author(s): Jambukavi, Bhagwandas Pt
Publisher: Hemchandra Granthmala

View full book text
Previous | Next

Page 113
________________ HEI अथोवाच वणिक साधो ! मया सम्यक् परीक्षितम् / अकृतज्ञस्त्वया तुल्यो नास्त्पन्यो बटुकारते // तत्कथा चेयम्-इहैव जम्बूदीपे भारते क्षेत्रे क्षितिप्रतिष्ठिते नगरे गुरुतरदारिद्यभराऽऽक्रान्तः शिवशमेनामा बामणो बभूव / तस्य च ब्राह्मण्या सह दरिद्रतया विडम्बनमायं विषयसुखमनुभवतः पुत्रोत्पतिरभूत् / अन्यदा बाल एव तत्र तद्भवितव्यतावशाद् उपरेमाते माता-पितरी। ततोऽसौ वराको बटुः कथं कथमपि भिक्षाभिरुदरं पूरयन् कुमारभावमतिक्रम्य यौवनमासादितवान् / ततोऽन्यस्मिनहनि तेन समचिन्ति- अहो ! ! अन्यजन्मनि मया प्रायो दानं नाऽदायि, तेनेदृशं सकललोकपरिभवस्थानं दारिद्यमभूत्, किमिदानीं निर्गतिको निरक्षरकुक्षितया बलीवर्दीयमानः क्षीणसकलवान्धवः करोमि ?, अथवा किमेवं विचारयामि ? नहि मादृशां बदरापा(रमा)नमप्यजानतां भिक्षाभ्रमणमपहाय अन्यत् किञ्चित् कर्तव्यमस्ति, केवलं साऽपि भिक्षा किञ्चित्पाखण्डमन्तरेण न लभ्यते, अतः किञ्चित् पाखण्डं विरचयामि ? किं पुनस्तादृशं सुकरं स्याद् यदनुभवादव्याहतां भिक्षां सर्वत्र लफ्येऽहं, हुं ! ज्ञातं, दारवीं दुर्गा | गृहीत्वा तदुत्कीर्तन-गीतकान् गायन् पर्यटामि, येन तत्प्रसादादस्खलिताऽखिलनिलय-निलयनः समासादतयामि भिक्षाम् / एवं संचिन्त्याऽचिरादसौ बटुः कारयाञ्चकार दारवीं चण्डिकाम् / ततस्तां गृहीत्वा बनाम गीतकान् गायन प्रतिनगरं, ययाचे गृहे गृहे कणभिक्षाम् / एवं च यहुना कालेन दुर्गाप्रभावादेवाऽसौ धनपति

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164