Book Title: Manipati Rajarshi Charitam
Author(s): Jambukavi, Bhagwandas Pt
Publisher: Hemchandra Granthmala

View full book text
Previous | Next

Page 136
________________ मणिपति व्यं सत्यमपि परपीडाविधायि वचनम्, निरीक्षितव्यं तृणवद् बुद्ध्या परधनम् / परिहर्तव्या भुजङ्गीव दूरतो. युवतिः, भवितव्यं स्वयं पतितपुष्प-फलोपभोगकृतस्थितिकैः, सर्वथा पराऽनुकम्पापरैरासितव्यम्" इति / अन्यदा तस्यैवंभाववर्तिनः प्राकृटकालभाविसप्तरात्रशीतिकायां तुहिनकणसन्मिश्रपवनजनितशीतविल धुरसङ्गाऽवयवः केशरी तद्गुहायां समाययौ / ततोऽसौ कृपापरीतचित्ततया- 'अहो !! अयं वराकः शीतेन ग्रस्तवपुरायातः, अतः प्रविशतु' इति चिन्तयता तेन पुरुषेणाऽनिवारितप्रसरः प्रविष्टो गुहामध्यम्, स्थितस्तत्र सुखासिकया ।क्षणान्तरे चाऽतीते लब्धस्वास्थ्येन क्षुत्क्षामकुक्षिणा तेन केशरिणा स एव तापसकल्पः पुमान् / भक्षितः / तद् भगवस्त्वमपि निःसंदिग्धमीदक्षलक्षणेन चेष्टितेन विभाव्यसे // इति शीतार्तसिंहकथा // उवाचाथ यतिस्तत्र प्रतिपत्तिमकुर्वति / दृष्टान्तबहुभिरेवं लोभग्रस्ताऽन्तरामनि // 1332 // भद्र ! दृष्टा मया श्राहाः बहवः केवलं त्वया / समानो षडकक्षोऽन्यो नास्ति प्रायो महीतले // 1333 // तथापि पुनरेकाग्रो ज्ञातमेकं निशामय / मुनीनां वेत्सि येन त्वं स्वरूपं जिनशासने // 1334 // तथा हि- आसीद्राजगृहे श्रेष्टी काष्ठ इत्याख्यया गतः। प्रसिद्धिं सर्वदेशेषु णग्धर्माऽनुपालकः / / 1335 // तस्य वज्राऽभवद् भार्या यौवनोदयवर्तिनी / रूपेण हेपयामास या कामरमणीमपि / / 1336 // ARE काष्ठ G // 67 OCTSHAR

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164