Book Title: Manipati Rajarshi Charitam
Author(s): Jambukavi, Bhagwandas Pt
Publisher: Hemchandra Granthmala
View full book text
________________ अमऊसर प्रस्तावना. एतस्य प्रस्तुतग्रन्थस्य निर्माता श्रीमान् जम्बूकविर्जन्मना दीक्षया विहारेण च कं जनपदं नगरं वाऽलंकृतवान् ? तस्य मातापित्रोणुरोश्च किं नामधेयम् ? तस्य जीवनचर्या कीदृशी ? इत्यनेकपश्नानां समुचितोत्तरदाने न किमपि साधनं पयामि, तथापि तत्कविप्रणीत-जिनशतककाव्यटीका साम्बमुनिना सपञ्चविंशे दशशतके विक्रमाब्दे व्यरचि, स तदन्ते प्रशस्तौ श्रीमज्जम्बूकवेश्चन्द्रगच्छत्यं विदत्संसदि लब्धप्रतिष्ठत्वं सामाचारीद्यतत्वं कवितायाः मुश्लिष्टत्वं चाभिष्टुतवान् , अत एतत्सत्तासमयो विक्रमाब्दान् पञ्चविशात् सहस्रतमात्पूर्वमवसेयः / बृहटिप्पणीकारेण " श्रीजम्बूनागः पश्चाधिके सहस्रतमे संवत्सरे संस्कृतं मुनिपतिचरित्रं मणिनाय" इत्युपदर्शितः / स एव श्रीजम्बूकविः संभाव्यते / अनेन कविना मणिपतिचरित्र-जिनशतकग्रन्थद्वयमृते अन्ये कति ग्रन्था विरचिता इति न झायन्ते / अनेकग्रन्थकारेण निर्मितानीदानी चत्वारि मुनिपतिचरितानि प्राप्यन्ते / (1) प्रथममिदमेव प्रकृतं गद्यपद्यमयं चरितम् / अस्मिन् सज्जनस्तुति-दुर्जननिन्दाक्रमेण नगर्यादीनां ग्रीष्मादि-सायंकालादीनां च सरलं प्रसन्नं वर्णनं कृतमस्ति, येन श्रुतिमात्रेण सहृदयहृदयानां सरसतामापादयन्त्रपूर्वानन्दं जनयति / (2) द्वितीयं हरिभद्रसूरिभिसप्तत्यधिके एकादशशततमे वर्षे प्राकृतं पद्यमयचरितं व्यरचि / इदं चातीव संक्षिप्तं सारत्वेन सर्वेषां प्रथमचरित्रवर्तिविषयाणां प्रतिपादकम् / (3) तृतीयं प्राकृतचरित्रावादकं संस्कृतं गद्यमयं केनचिदाचार्येण प्राणायि / R-51

Page Navigation
1 ... 161 162 163 164