Book Title: Manipati Rajarshi Charitam
Author(s): Jambukavi, Bhagwandas Pt
Publisher: Hemchandra Granthmala

View full book text
Previous | Next

Page 164
________________ (4) चतुर्थ मसङ्गतोऽन्यान्यकथासङ्गहेण सविस्तरं संस्कृतं गमयं कश्चिदाचार्यश्चकार / तच्च जामनगरवास्तन्येन पंडितहिराकालेन मुद्रितम् / एतेषु चतुर्वपि चरितेषु श्रीमज्जम्बूकविविरचितमिदमेव चरितं विषयसंकलनया रमणीयशब्दार्थतया च प्राध्यतरं परीवर्ति / अस्य चरितस्य कथाऽतिसंक्षिप्ता, परं नगर्यादीनां वर्णनेन मणिपति-कुञ्चिकाभ्यां स्वाभिमायसिद्ध्यर्थ प्रसङ्गागताष्टाष्टकयानां परस्परं अतिपादनेन गुर्वी माता। यद्यप्येतचरितं 'मुनिपतिचरितं ' इत्येतनाम्ना प्रसिद्धम, तथापि 'मणिपतिचरित' इत्येतमाम वस्तुतः संभाव्यते / एतच्चोपपादितमस्माभिर्गुर्जरभाषानिबद्धप्रस्तावनायाम, तथैतत्कथासारोऽपि तस्यामेवाभिहितः जिज्ञासुभिर्तत एवावलोकनीयम्. एतत्संशोधनविषये लुहारनीपोळ ज्ञानभाण्डागारादेकं पुस्तकं प्राप्तं शुहमायं, तदवलम्ब्य च संशोधितं मुद्रितेऽप्यस्मिन् या: काबनाशुद्धयो दृष्टिदोषादज्ञानामुद्रायन्त्रदोषादा भवेयुस्ताः सहृदयैर्मयि कृपां विधाय संशोधनीयाः / इति प्रार्थयते, विक्रमाद 1978 श्रावण कृष्ण पञ्चमी अमदावाद पं० भगवानदासः सच्चरणोपासकः

Loading...

Page Navigation
1 ... 162 163 164