Book Title: Manipati Rajarshi Charitam
Author(s): Jambukavi, Bhagwandas Pt
Publisher: Hemchandra Granthmala

View full book text
Previous | Next

Page 131
________________ परसुखिजनं लीलया प्रति वसति स्म / अन्यदा क्वचिदसमीक्षितचरणन्यासेन तस्य यूथस्याधिपतिः करेणुराजो विद्धः पादतले खादिरकीलकेनोव स्थितेन / ततोऽसौ तत्पीडया न शशाक पदमपि चलितुं, नाऽऽददे कवलं, न लेभे मनागपि रतिम् / ततस्तं ताशपदमवलोक्य यूथाधिपमेका करेणुका विशिष्टयुडियुक्ततया रात्री जगाम कञ्चनैकं जनपदम् / तत्रकग्रामाऽसबकेदारमध्ये कलमगोपमेकं निद्रया सुप्तं ददर्श / ततस्तं करेणादाय स्कन्धे चाऽऽरोप्य निनाय तं प्रदेशं यत्राऽऽस्ते स्माऽसौ यूथाधिपतिः / मुक्तस्तदन्तिके, दर्शितो यूथाधिपतिनोत्पाटय स्वकीयचरणः / तेनाऽपि सात्त्विकतया कार्यार्थमिहाराहमवश्यमनया करेणुकया समानीतः, अतोऽमुतो न भयमिति स्वस्थमानसेन तीक्ष्णच्छुरिकया पादं विदार्य समाचकृषे खदीरकिलकः ममर्द चरणतलम्, बबन्ध तत्र स्वोत्तरीयेण पट्टकमसौ, किंबहुना ? स्वस्थीकृतस्तेन यूथनाथः। . ततोऽयं मम महोपकारी वर्तते, येन जीवितं दत्तम्, अतोऽस्मै किञ्चिदामीति संपधार्य तेन मातङनाऽऽनाय्यस पुमानेकदेशं, दर्शितास्तत्राऽनेकाऽनेकपदन्तमुक्ताफलराशयः / ततोऽतिमुदितमनसा बडा वल्लीसन्तानेन दन्तपुञ्जाः, संयमितानि वस्त्रपर्यन्ते महत्वींषि मुक्तफलानि / ततपुनरऽसौ यूथाधिपो गृहीतदन्त-मुक्ताबलं तं मनुजं निजं स्कन्धमारोप्प कतिपयकरेणुकापरिवृतस्तं प्रदेश निनाय, यतः समानीतः, मुमुचे च स्कन्धात् SARSHAN

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164