Book Title: Lakshan Vilas
Author(s): Dhurandharvijay Gani
Publisher: Jain Sahityavardhak Sabha
View full book text
________________
[३] छेदिते सति दुःखत इति ज्ञापकं शब्दरूपं स्यात् नच्छेदितो यद्यकारस्तदा तु दुःखाद्विपरीतं सुखत इत्यवगमकं स्यात् , किं तत् सूत्रम् ? वदतादिति ॥४॥
[ शार्दूलविक्रीडितम् ] रूपं कीडगदो भवं प्रथमया, स्याम्नि पुंसि स्थितं, कीटक स्याद्विनयान्वितः समुदये स्यात् सैनिकः कीदृशः । नामी किं किल प्राकृते प्रविदितं, ना कः प्रसिद्धः क्षिती, के चन्द्रोज्ज्वलकीर्तयः पुनररुक् , को हैमसूत्रं स्मर ॥५॥
(पञ्जिका ) (१) पुंल्लिंङ्गे प्रथमाबहुवचने अदःशब्दसम्भवं रूपं कीदृशं भवेत् ? (२) विनयगुणयुक्तो विनेयः कीदृशः स्यात् ? (३) समुदये संग्रामे सैनिकः कीदृक्षः स्यात् ? (४) 'नामी' इतिपदं प्राकृतभाषायां किल कीहक् प्रविदितम् ? (५) भुवि प्रसिद्धः पुरुषः कः ? (६) चन्द्रधवलयशसः-शरचन्द्रचन्द्रिकाविशदकीर्तयः के ? (७) रोगरहितः कः ? इति प्रश्नसप्तकं सम्यग् विचार्य हैमव्याकरणसूत्रं स्मृत्वोत्तरं वितीयताम् ॥५॥
- [ शिखरिणी ] शरीरं कीहक् स्या-दमरनिको जन्मजनितं, कुशिष्याणां वृत्तं भवति किमु कीहक पदचयः । वचः कान्तं किं कि मृदुलपदमामन्त्रणकृतेऽव्ययं सूत्रं हेमं सपदि यदि दक्षो निगदतात् ॥६॥
(पञ्जिका ) (१) देवसमुदाये जन्मसम्भवं वपुः कीदृशं भवेत् ? (२) दुर्विनेयानामाचरणं कीग भवति ? (३) पदसमूहः कीदृक्षः ? किं पदवाच्य इति यावत् ? (४) कमनीयं वचनं किम् ? कीदृशं वचनं रमणीयं

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82