SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ [३] छेदिते सति दुःखत इति ज्ञापकं शब्दरूपं स्यात् नच्छेदितो यद्यकारस्तदा तु दुःखाद्विपरीतं सुखत इत्यवगमकं स्यात् , किं तत् सूत्रम् ? वदतादिति ॥४॥ [ शार्दूलविक्रीडितम् ] रूपं कीडगदो भवं प्रथमया, स्याम्नि पुंसि स्थितं, कीटक स्याद्विनयान्वितः समुदये स्यात् सैनिकः कीदृशः । नामी किं किल प्राकृते प्रविदितं, ना कः प्रसिद्धः क्षिती, के चन्द्रोज्ज्वलकीर्तयः पुनररुक् , को हैमसूत्रं स्मर ॥५॥ (पञ्जिका ) (१) पुंल्लिंङ्गे प्रथमाबहुवचने अदःशब्दसम्भवं रूपं कीदृशं भवेत् ? (२) विनयगुणयुक्तो विनेयः कीदृशः स्यात् ? (३) समुदये संग्रामे सैनिकः कीदृक्षः स्यात् ? (४) 'नामी' इतिपदं प्राकृतभाषायां किल कीहक् प्रविदितम् ? (५) भुवि प्रसिद्धः पुरुषः कः ? (६) चन्द्रधवलयशसः-शरचन्द्रचन्द्रिकाविशदकीर्तयः के ? (७) रोगरहितः कः ? इति प्रश्नसप्तकं सम्यग् विचार्य हैमव्याकरणसूत्रं स्मृत्वोत्तरं वितीयताम् ॥५॥ - [ शिखरिणी ] शरीरं कीहक् स्या-दमरनिको जन्मजनितं, कुशिष्याणां वृत्तं भवति किमु कीहक पदचयः । वचः कान्तं किं कि मृदुलपदमामन्त्रणकृतेऽव्ययं सूत्रं हेमं सपदि यदि दक्षो निगदतात् ॥६॥ (पञ्जिका ) (१) देवसमुदाये जन्मसम्भवं वपुः कीदृशं भवेत् ? (२) दुर्विनेयानामाचरणं कीग भवति ? (३) पदसमूहः कीदृक्षः ? किं पदवाच्य इति यावत् ? (४) कमनीयं वचनं किम् ? कीदृशं वचनं रमणीयं
SR No.002446
Book TitleLakshan Vilas
Original Sutra AuthorN/A
AuthorDhurandharvijay Gani
PublisherJain Sahityavardhak Sabha
Publication Year1916
Total Pages82
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy