________________
[४] . भवतीति यावत् ? (५) सम्बोधनार्थ कोमलपदमव्ययं किम् ? चेद् दक्षोऽसि त्वं तदा हैमव्याकरणसूत्रं वद ॥६॥
[ शिखरिणी ] समानानां तेन स्वरससमदीर्घस्थितिमिताः, समानानां तेन स्वरससमदीपस्थितिमिताः । 'समाना' नान्तेन स्वरस 'सम' दीर्घस्थितिमिताः, समाना नान्तेन स्वरससमदीर्घस्थितिमिताः ॥७॥
(पञ्जिका ) प्रस्तुतशिखरिण्याः पादचतुष्टयं समानमेव, तत्र 'समानानां तेन दीर्घः' ।।२।१। इति सूत्रं व्यक्तमन्तर्निहितमारते । अर्थविचारणायां तु प्रतिपादं निम्नप्रकारेण भिन्नभिन्नार्थमित्थं विचारणीयम् । (१) अप्रमुखस्वरदशकात्मकसमानस्वराणां समानेन स्वरेण सह स्वाभिलषितसमानो दीर्घस्वरो जायते इति शेषः । (२) 'स्थितिमिताः' इति प्रथमचरणावशिष्टमत्र द्वितीयपादे संयोज्यम् । एवञ्च स्थितिमिताः समाः नानान्तेन स्वरससमदीर्घस्थितिम् इताः, इत्येवमन्वेयम् , तथाच मर्यादांप्राप्ताः समभावशालिनः शमिनो विविधावसानेनापि निजानुरागानुरूपविस्तृतावस्थानम् अधिगता इति तदर्थः । (३) समाना नान्तेन स्वरससमदीर्घस्थितम् इताः इति तृतीयपादान्वयस्तथाच 'समाना' इत्यात्मकत्रयो वर्णा नान्तेन 'ना' इत्यक्षरापसारणेन स्वरेति स्वानुरूपा-'सम' इत्यक्षरयुगलस्य या दीर्घस्थितिः 'समा' इत्यात्मिका, ताम् इता:-अवाप्ता इत्यर्थः । (४) तुर्यपादान्वयस्त्वित्थम्-समानाः अन्तेन स्वरससमदीर्घस्थितम् न इता इति । तथाच मानकषायकलुषिता मरणेनापि निजेप्सितशमसमन्वितदीर्घायुःस्थिति नाध्यगच्छन्निति ॥७॥