________________
[५]
__ [ अनुष्टुप् ] सुरेशत्वं भवेत् कस्मिन, कस्मिन् ज्ञानं विराजते । कस्मिन प्रीते सुभिक्षं स्यात्, स्मराशु हैमलक्षणम् ॥८॥
(पञ्जिका ) (१) देवानामधिपतित्वं कस्मिन् भवेत् ? ( २ ) ज्ञानं कुत्र विलसति ? (३) कस्मिन् प्रसन्ने सति सुकालः स्यात् ? अत्रोत्तरं दातुं हैमं व्याकरणं त्वरितं स्मृतिपथमानय, सूत्रं बहीति यावत् ॥८॥
[ शिखरिणी ] पवर्गाधं षष्ठं प्रथममिह तद्वर्गचरमं, स्थितं द्वैतीयीकं तदनु च तवर्गस्य चरमम् ॥ ततोऽरान्तस्थानां त्रयमपि सदामन्त्रणकृतेऽव्ययद्वन्द्वं प्रान्ते स्मरतु विशदं सूत्रमुदितम् ॥९॥
_ (पञ्जिका ) अत्राभिमतस्य सूत्रस्य षष्ठमक्षरं पवर्गस्य प्रथमम् , पवर्गस्यैव चरममक्षरं प्रथमम् , तवर्गस्य चरममक्षरं द्वितीयम् , मध्ये तृतीयतुर्यपञ्चमस्थाने रेफरहितास्त्रयोऽप्यन्तस्थानां वर्णाः, अन्ते सप्तमाष्टमस्थाने प्रसिद्धमामन्त्रणवाचकमव्यययुगलं विलसति । उक्तप्रकारेणाक्षरकदम्बकमेकीकरणे यत् स्यात् तदेव प्रस्तुतं सूत्रमास्ते ॥९॥
..] अनुष्टुप् ] मो व्यञ्जनेऽननुस्वारे, नाम किं चक्रवर्तिनः । एक शब्दकृते त्वेकं, सूत्रं व्याकरणे च किम् ॥१०॥
. ( पञ्जिका ) सर्वत्र मकाराव परे व्यञ्जने सत्यनुस्वारो भवत्येव, परं तादृशं . राजराजस्य किमभिधानमास्ते, यत्र मकारम्य व्यञ्जने परे सत्यपि