SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ [ २ ] ( पञ्जिका ) यत् पूजनीयम् उत्तमार्हतां सम्बन्धि श्रेष्ठतरं श्रेयः श्रेणिसदनम् ( अस्ति ), ( पुनः ) यत् पञ्चवर्णात्मकम् अव्ययस्वरूपम्, साधुसमूहध्यानविषयीभूतं तेजः ( अस्ति ) ( अपि च ) यत् स्थिरचित्तेन ध्यानविषयीकृतं सत् सुरसदन - मोक्ष निलयदायकम् ( अस्ति ) तत् स्वतन्त्र - शास्त्र तिलकरूपं हैमं मन्त्रभूतं किं समाराध्यते ? उच्यतां प्रतिवचः ॥२॥ [ शिखरिणी ] अयोगानां योगाद् भवति किमु कर्मक्षयमयी, पदं नानाधर्मा - वगमगमकं किं परिचितम् । जयो वा सिद्धान्तः प्रभवति कुतः साधुकरणाद्, भवेत् का शब्दानां कुत इति पठेद्वैमवचनम् ||३|| ( पञ्जिका ) (१) योगरहितानामात्मनां सम्बन्धेन यद्वा परमगुणस्थानस्थितानां वर्ययोगतः सकलकर्मक्षयात्मिका का स्यात् ? (२) विविधविरुद्धधर्मबोधजनकं किं पदं प्रसिद्धम् ? (३) सुष्ठु विधानात् कस्मात् किल विजयो निश्चयो वा जायते ? (४) कस्मान् ननु सामर्थ्यात् शब्दानां का स्यात् ? इति प्रश्नच तुष्कोत्तरार्थ हैमवचनं - श्रीसिद्धहेमचन्द्रशब्दानुशासन सत्कं सूत्रमभ्यस्येत् ||३|| [ आर्या ] व्याकरणं यदि पुरतो व्यालः पुरतः पुरस्कृतो भवति । अति कृष्टे स्याद् दुःखा - नैवाकृष्टे तु विपरीतम् ॥४॥ ( पञ्जिकर ) एकमेतादृशं सूत्रं स्मर्यताम् - यस्य पुरतः प्रथमं व्याकरणं 'व्या' इत्यक्षरविधानं यदि - तदाऽग्रे व्यालो भवति प्रकटः, ततश्चाकारे
SR No.002446
Book TitleLakshan Vilas
Original Sutra AuthorN/A
AuthorDhurandharvijay Gani
PublisherJain Sahityavardhak Sabha
Publication Year1916
Total Pages82
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy