________________
* ॐ ह्रीं अह नमः *
लक्षण-विलासः
- [ अनुष्टुप् ] अहेमादिमहैमीय - लक्षणाध्यक्षवीक्षणः ।. स्ताल्लक्षणविलासेन, विलासो लक्षणे क्षणः ॥१॥
. (पञ्जिका ) . अहं नत्वा परं मन्त्र-माहतं बीजमादिमम् ।
तनुमः पञ्जिकामत्र, विद्वन्मानसरंजिकाम् ॥१॥ अहमिति मङ्गलात्मकपदाचावयवकश्रीसिद्धहेमचन्द्रीयशब्दानुशासनप्रत्यक्षदर्शनः, उत्सवरूपो विलासो व्याकरणविषयो लक्षणविलासाख्येनानेन काव्यदेशीयेन खण्डकाव्येन भवतु ॥१॥ . . [ शार्दूलविक्रीडितम् ]
यत् पूज्यं परमाहेत परतरं माजन्यमालास्पदं, यत् पश्चाक्षरमक्षरं मुनिगण-ध्यानाधिरुढं महः । • यद् ध्यातं स्थिरतान्वितेन मनसा स्वर्गापवर्गावह. हैमं मन्त्रमतन्त्रतन्त्रतिलक, तत् किं समाराध्यते ॥२॥