Book Title: Lakshan Vilas
Author(s): Dhurandharvijay Gani
Publisher: Jain Sahityavardhak Sabha
View full book text
________________
[ १५ ] इह जनाः षड्विधाः, उत्तमोतमाः, उत्तमाः, मध्यमाः, विमध्यमाः, अधमाः, अधमाधाश्च । तेषु- १- ये स्वहितं सम्पूर्ण साधयित्वा परहितायोद्यतारा प्रथमाः । २- ये स्वात्महितमेव साधयन्ति ते द्वितोयाः । ३- ऐहिकमुपेक्ष्य ये पुनरामुष्मिककृते यतन्ते ते तृतीयाः । ४- ऐहिकमनुपेक्ष्य पारत्रिकं सम्पादयन्ति ये ते तुर्याः । ५- ये परत्र हितमुपेक्ष्यहिकोद्यतास्ते पञ्चमाः । ६- ऐहिकपारत्रिकविकला ये ते षष्ठाः । (२) धातुभिन्ने क विभक्तयो भवन्ति ? (३) अर्थवत्त्वश्च कुत्र ? सूत्रमुपादीयताम् ॥३॥
. [ अनुष्टुप् ] नैयायिकैमतं ज्ञान-साधनं किमणूच्छितम् । गीतायां चञ्चलं गीतं, किन्तत् स्मरतु सूत्रतः ॥३६॥
( पञ्जिका ) . (१) ज्ञानकरणोपयुक्तमणुप्रमाणं न्यायशास्त्रकोविदः किं मतम् ? (२) गीतायां चञ्चलं किं गीतमारते ? सूत्रं संस्मृत्योचरमाप्यतामिति॥३६॥
_[ वसन्ततिलका ] स्याद्वा नरस्य नरतो विभिदोच्चपुच्छात्. पिच्छाद्विभान्ति शिखिनस्तुरगाश्च पुच्छात् । जोवाः पुनः कतिपये विषमा द्विपुच्छात् , स्वाङ्गात् स्त्रियां भवनि डोर्ननु वाऽत्र पुच्छात् ॥३७॥
. ( पञ्जिका ) मटस्य मनुष्यादन्तरं लम्बायमानदीघलाकुलतो भवेत् । कलापिनः पिच्छकलापतः शोभन्ते हयाश्च पुच्छतः । केचन मत्स्यविशेषाः क्षुद्रजन्तवः पुनः पुच्छद्वयतो विचित्रा भवन्ति, स्वाङ्गतः पराव पुच्छशब्दात् स्त्रीलि अत्र हैमव्याकरणे डीप्रत्ययः खलु जायते ॥३७॥

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82