Book Title: Lakshan Vilas
Author(s): Dhurandharvijay Gani
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 45
________________ [२०] देवाः सदैव दिविजे ललिते रमन्ते, प्रोक्ताक्ष सम्मित प्रयोगकृते यतन्वाम् ||४८ || ( पञ्जिका ) समयसम्भवाच्छारदात्तापतोऽप्यवश्यं भयं विदध्यात् । यतो हि समुपेक्षितः स चिरकालं न स्पर्धात । भेकः प्रावृऋतुसम्भवाद्विविधविकारकारणात ड्रौं ड्रौं इति शब्दायते । रोंये विविधर मणीयविलासे सर्वदा सुधान्धसो विलसति । उत्तरादत्रयोक्त-कालेज-शरदिजवर्षासु प्रावृषिज - दिवि जात्मक प्रयोगपञ्चक्र साधनार्थं यत्नो विधीयताम् । केन सूत्रेण प्रोक्तप्रयोगसिद्धिर्भवतीत्युच्यताम् ||४८|| [ मालिनी ] रसरुधिरविमुक्तं भाति केषां शरीरं, रसभरभरितः किं काव्यविज्ञाय पाठः । अभिमतमभिधानं श्रीविहीनस्य कीदृक्, स्मरतु लघु तृतीयाध्यायपादं द्वितीयम् ॥ ४९ ॥ ( पञ्जिका ) (१) रसरक्तादिधातुसप्तक रहितं शरीरं केषां राजते ? (२) साहित्यमर्मवेदिने रसनिकर करम्बितः पाठः किं स्यात् ? (३) मूर्खस्य तादृक् नाम किमस्ति यत्तस्मै अपि रोचते ? एतदर्थ हैमव्याकरणतृतीयाध्यायस्य द्वितीयं पादं सत्वरं स्मरणपदवीमानीयताम् ||४९ || [ वसन्ततिलका ] आद्यद्वयेन विषमो न भवेजगत्या - मन्त्यद्वयेन वचनार्थवचो बहुवे । आद्यान्त्यवर्णवशतः कमलाकरः स्यात्, सूत्रं किमत्र चतुरक्षरमक्षरज्ञ १ ॥५०॥

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82