Book Title: Lakshan Vilas
Author(s): Dhurandharvijay Gani
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 47
________________ [ २२ ] [ मन्दाक्रान्ता ] कान्तोऽकान्तो नव इह नवः सद्विलोडसद्विलोsसौं, क्षान्तः क्षान्तः स्वरससरसोऽनृत् तथा सूनृतश्च । सूत्रव्यक्तीकरणकुशलो मानसे सभिरूतः, शब्दापः संशरणशरणं सेव्यतां कल्पवृक्षः ॥५३॥ ( पञ्जिका ) शब्दात्मकापः संझरण निकेतनं कल्पवृक्षः स्वाभिमतसूत्रप्रकटीकरणनिपुणो मानसे सन्निरूढोऽस्ति स सेव्यताम्, सूत्राविष्क्रियताम् । कीरशोऽयमास्ते ? कान्तोऽप्यकान्तः ककारविमुक्तः, दुःखविनाशकरणच । ववर्णविरहितस्तथाऽत्र प्रकरणे नवीनः । सद्विगतलकारः, अथ चाविद्यमानबिलः । क्षाक्षरविकलितः क्षमान्वितः, स्वरसतया रसोपेतः, ऋता मुक्तः, सत्यस्वरूपश्च आस्ते । कल्पवृक्षः उक्तविशेषणविलसितः सम्यविचारचर्चामापाते तदा सूत्रं व्यक्तं भवेदेवेति सुनिश्चितम् ||५३|| [ अनुष्टुप् ] क्रियाकलापदाही कः कश्च विश्वासभञ्जम । देरित्यादि सिद्धयर्थं सूत्रं किमुपयुज्यते ॥ ५४ ॥ ( पञ्जिका ) सूत्रं यत्पदानकमास्ते तत्पदार्थः स क्रिया समूह विनाशकः । अथ च प्रत्ययविघटको भवति । देभतुः, देमुरित्यादिरूपसिद्ध सूत्रमिदं समुपयुज्यते । तद्वै किमस्ति ? उच्यतामिति ॥ ५४ ॥ | [ उपजातिः ] वदेत् स्वरः को जननीं सुमेषोः, समुच्चयार्थ किमिहाव्ययं स्यात् । समूहवाची प्रकटः स्वरः कः, सूत्रं चतुर्थात् स्मृतिमानयन्तु ॥ ५५॥

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82